This page has been fully proofread once and needs a second look.

४१
 
त्याख्या नाम यस्य तम् । गिरिमधिवसेरिति । 'उपान्वध्याङ्वस; '

इति सप्तम्यर्थे कर्मत्वात् द्वितीया । तत्र विदिशापुरे। विश्रामहेतोः

'अध्वश्रमविनोदनान्निमित्तात् । 'नोदात्तोपदेशस्य मान्तस्यानाचमेः '

इति वृद्धिप्रतिषेधाद्विश्रमेति वक्तव्यम्; विश्रामेति रूपसिद्धिर्लक्षणा-

न्तरेणेति ज्ञेयम् । मद्दता श्रमेण परगृहोपसर्पणे त्रपापि त्वया न

कार्या; यत्र न सत्कारः तत्रैव तस्याः सावकाशत्वात् । अत्र तु प्रत्युः
यु-
तेत्याह-- त्वत्संपर्कात् चिराभिलषितात् अचिन्तितोपनतात् प्रिय-

सुहृदस्तव समागमात्, उपचितप्रर्षतया रोमाञ्चकञ्चुकितमिवो-

त्प्रेक्ष्यमाणम् । अप्रौढपुष्पैः अपरिणतमुकुलैः, कुड्मलानामेव पुल-

कसाम्यप्रसिद्धेः । पण्यस्त्रीणां वारविलासिनीनाम् संभोगोपकरणभूत-

विविधकुसुमाङ्गरागपटवासादिसौरभं मुखेनोद्वमद्भिर्दरीगृहैः। नागरा-

णां नगरवासिनाम्। उद्दामानि विशृङ्खलानि, विशृङ्खलत्वं नाम निर-

तिशयविभूतिसंभारभूषितनिर्यन्त्रणस्मरव्यापारपारगत्वम्; 'यौवनम-

फलं दरिद्रस्य' इत्युक्तत्वात् । एतेन सुरभिपरिमलाघ्राणेनैव श्रमस्ते

गमिष्यतीति द्योत्यते । अत्रोत्प्रेक्षा उदात्तं चालंकारः ॥ २५ ॥

 
विश्रान्तः सन्न्व्रज ननदीतीरजानां निषिञ्च-
बुधा

न्नुद्या
नानां नवजलकणैर्यूथिकाजालकानि ।

गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां
 
प्रथमाश्वासः ।
 
1
 

छायादानात्क्षणपरिचितः पुष्पलावीमुखानाम् ॥
२६ ॥
 
अथ विश्रान्तस्य सेतिकर्तव्यं गमनं विदधानो मध्येमार्गमानुष-

ङ्गिकरसान्तरप्रतिपादनेन प्ररोचयति- विश्रान्तः सन्निति । वन-
-