This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
'स्त.
 

 
च्छब्दः प्रसिद्धिं परामृशति । तीरोपान्तस्तनितसुभगं तटनिकटास्फा-

लनजनितकलकलमनोहरम्, 'स्तनितमणितादि सुरते' इति,

नितमभ्रघोषवत्' इति च भरतवात्स्यायनादिप्रतिपादितशब्दविशे-

वर्धितरागं च । स्वादु मधुररसम्, पीयूषातिशायिनोऽधरामृतस्य

विद्यमानत्वाद्रसनीयं च । सभ्रूभङ्गं रसावेशविवशेन प्रेयसा ठा-

त्कारेण पीयमानेन मुखाम्बुजेनाभिनीतललितकोपोल्लसितचिल्लीवल्ली-

मनोहरमित्यर्थः । वेत्रवतीति नद्याः संशाज्ञा । चलोर्म्याः चलः मृदु-

मारुतोत्थापित: ऊर्मि: तनुतरङ्गो यस्याः, तस्यैव भ्रूभङ्गसादृश्योप-

पत्तेः :; वक्ष्यति च-- 'प्रतनुषु नदीवीचिषु भ्रूविलासान्' इति ।

चलोर्म्या इति नदीविशेषत्वेनोक्तोऽप्यर्थात् पयस एव फैलति,

नायिकात्वेन प्रतीयमानायाः सरितः सत्भ्रूभङ्गमुखस्थानीयत्वात् पयसः।

चलोर्मीति वा पाठः । अत्र नायिकापक्षे तीरोपान्ते स्तनितसदृश-
स्तनितमु

स्तनितसु
भगमिति, चलोमिंर्मि पय इव मुखमिति च योज्यमर्थबलात्;

यथा-- '' ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्द्रनखक्षताभम् ।

प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार '
इत्यत्र
समासोक्तिरलंकारः ॥ २४ ॥
 
इत्यत्र ।
 
४०
 

 
नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतो-

स्त्वत्संपर्कात्पुलकितमिवाप्रौढपुष्पैः कदम्वैः ।
बैः ।
यः पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणा-

मुद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि ॥
२५ ॥
 
अथ श्रमविनोदस्य स्थलं निर्दिशति-- नीचैरिति । नीचैरि
 
-