This page has not been fully proofread.

मेघसंदेशे
 
'स्त.
 

 
च्छब्दः प्रसिद्धिं परामृशति । तीरोपान्तस्तनितसुभगं तटनिकटास्फा-
लनजनितकलकलमनोहरम्, 'स्तनितमणितादि सुरते' इति,
नितमभ्रघोषवत्' इति च भरतवात्स्यायनादिप्रतिपादितशब्दविशे-
पवर्धितरागं च । स्वादु मधुररसम्, पीयूषातिशायिनोऽधरामृतस्य
विद्यमानत्वाद्रसनीयं च । सभ्रूभङ्गं रसावेशविवशेन प्रेयसा इठा-
त्कारेण पीयमानेन मुखाम्बुजेनाभिनीतललितकोपोल्लसितचिल्लीवल्ली-
मनोहरमित्यर्थः । वेत्रवतीति नद्याः संशा । चलोर्म्याः चलः मृदु-
मारुतोत्थापित: ऊर्मि: तनुतरङ्गो यस्याः, तस्यैव भ्रूभङ्गसादृश्योप-
पत्तेः : वक्ष्यति च- 'प्रतनुषु नदीवीचिषु भ्रूविलासान्' इति ।
चलोर्म्या इति नदीविशेषत्वेनोक्तोऽप्यर्थात् पयस एव फैलति,
नायिकात्वेन प्रतीयमानायाः सरितः सत्रूभङ्गमुखस्थानीयत्वात् पयसः।
चलोमति वा पाठः । अत्र नायिकापक्षे तीरोपान्ते स्तनितसदृश-
स्तनितमुभगमिति, चलोमिं पय इव मुखमिति च योज्यमर्थबलात्;
यथा—'' ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्द्रनखक्षताभम् ।
प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार '
समासोक्तिरलंकारः ॥ २४ ॥
 
इत्यत्र ।
 
४०
 
नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतो-
स्त्वत्संपर्कात्पुलकितमिवाप्रौढपुष्पैः कदम्वैः ।
यः पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणा-
मुद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि ॥
अथ श्रमविनोदस्य स्थलं निर्दिशति – नीचैरिति । नीचैरि