This page has been fully proofread once and needs a second look.

३८
 
मेघसंदेशे
 
म्भितनयनैः । स्वागतीकृत्य स्वागतशब्दं कृत्वा । 'केका वाणी मयू-

रस्य' इत्यमरः । कथमिवेति पाठः । आशु गन्तुं त्वरितगमनाय ।

कथमिव व्यवस्येत् उद्योगं कुर्यात्, दाक्षिण्यनिघ्नत्वादिति भावः ।

कथमपीति केचित् । सखित्वान्मद्दशादर्शनाञ्च्च प्रियाजीवितपरित्राणा-

यत्तत्वान्मज्जीवनस्य प्राणत्राणात्परस्य धर्मस्य चाभावान्मध्ये विलम्बो

न ते युक्त इत्यर्थः । उत्पश्यामि न पुनर्निश्चिनोमि, यतस्त्वयि नैवं

संभाव्यत इति द्योत्यते । अत्राप्रस्तुतप्रशंसालंकारः ॥ २२ ॥
 

 
पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नै -

र्नीडारम्भैर्गृहबलिभुजामा कुलग्रामचैत्याः ।

त्वय्यासन्ने परिणतफलश्यामजम्बूवनान्ताः

संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥
 
२३ ॥
 
विन्ध्यमतिक्रम्य मार्गवशादन्यांश्च पर्वतान् विलङ्घय व्रजतस्ते

दशार्णा नाम जनपदाः पथि भविष्यन्ति; तेषां च त्वदासत्तौ का-

चिदीदृशी दशा समुदेष्यतीत्याह–पाण्डुच्छायेत्यादि । वृतिः

कण्टकिविटपिनिर्मितं समन्ततः प्राकारसमाकारमावरणम् । 'प्रान्ततो

वृति: ' इत्यमरः । केतकैः केतकीकुसुमैः । सूचिभिन्नैः सूचिः शस्त्र-

विशेषः, सूचिवत्तीक्ष्णतया दलाग्राण्यत्र सूचय इत्युच्यन्ते, सूचिमात्रेण

विकसितैः, अनतिपाकाददलितदलसंपुटैरित्यर्थः । नीडारम्भैः कुला-

यनिर्माणोपक्रमैः । 'कुलायो नीडमस्त्रियाम्' इत्यमरः । गृहबलि-

भुजां भवनेषु संचरतां काकानाम् । 'वायसे करटारिष्टबलिपुष्टसकृ-

त्प्रजाः' इत्यमरः । अथवा चटकानाम् । 'गृहबलिभुङ्नीलकण्ठश्च '
 
?