This page has been fully proofread once and needs a second look.

प्रथमाश्वासः ।
 
३७
 
तु सारङ्गा गजा इति केचित्, 'करीव सिक्तं पृषतैः पयोमुचां शुचि-

व्यपाये वनराजिपल्वलम्' इत्युक्तत्वात् । अत्र प्रमाणं मृग्यम् ।

जललवमुचः लोकसुखानुरोधेन शनैः शनैर्वर्षतः । सूचयिष्यन्ति ज्ञापयि-
य्

ष्
यन्ति, 'मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षास्तवागतिशंज्ञं समबोधयन्माम् ।

व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि' इति -

वत् । काव्यलिङ्गमलंकारः ॥ २१ ॥
 

 
उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थ यियासोः

कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते

शुक्लापाङ्गै: सजलनयनैः स्वागतीकृत्य केका
काः
प्रत्युद्यातः कथमिव भवान्गन्तुमाशु व्यवस्येत् ॥

 
अथास्य कालक्षेपं संभाव्य उक्तिमङ्गयानुमोदमान इव निषेधति-

उत्पश्यामीति । उत्पश्यामि संभावयामि । सखे निर्व्याजप्रेमास्पद ।

मत्प्रियार्थे यियासोः ईदृशस्य व्यसनविह्वलस्य मम प्रीतिद्देहेतोर्जिंजि:
-
मित्रतः । सखे इति, मत्प्रियार्थमिति च, विलम्बस्य स्वप्नेऽप्यचिन्तः
त-
नीयतां द्योतयति । कालक्षेपं प्रकृतकार्यानुपयोगेन कालस्य यापनम् ।

ककुभसुरभौ तदात्वोन्मीलदर्जुनमञ्जरीसौरभ्याधिवासिते। 'इन्द्रङ्का
द्रुः
ककुभोऽर्जुनः' इत्यमरः । एतद्विलम्बने हेतुः । पर्वते पर्वत इति ।

मध्येमार्गे पर्वतानां बहुत्वात् प्रतिपर्वतं क्षणं क्षणमवस्थानेऽपि मतः

कालस्यातिक्रमापत्तिरिति भावः । अन्यं च तस्मादपि दुर्लङ्गंघं विलम्ब
-
हेतुमाइ—ह-- शुक्लापाङ्गैरिति । 'शुक्लापाङ्गः शिखावलः' इति वैज-

यन्ती । सजलनयनैः चिरसंदर्शनसंभृतानन्दबावाष्पविबिन्दुभिः संस्त-
.