This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
खरनादोक्तश्चिकित्साक्रमोऽप्यनुसंधेयः । पूर्वार्धे स्वभावोक्तिरलंकारः,

अन्यत्रार्थान्तरन्यासः ॥ २० ॥
 

 
नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरूढै-

राविर्भूतप्रथममुकुलाः कन्दलीश्राचानुकच्छम्

दग्धारण्येष्वधिकसुरभिं गन्धमाघ्राय चोर्व्याः

सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥
 

 
अथ ब्व्रजस्ते पन्थास्तत्कालभाविभिर्ललितैर्लक्षणैर्विना वाचं

व्यक्तीभविष्यतीत्याह - नीपमिति । नीपं कदम्बकुसुमम् । 'नी-

प्रियककदम्बास्तु हलिप्रियः' इत्यमरः । दष्टाट्वा अपक्वत्वादनभिव्यक्त-

समग्रमकरन्दतया नवीनरसौत्सुक्याच्च मुखैः परिपीड्य । हरितकपिशं

नवपर्णवर्णे श्याचवर्णे च । 'पालाशो हरितो हरित् । श्यावः स्यात्क-

पिशः' इत्यमरः । अत्र हेतुरसमग्रसंजातकिञ्जल्कत्वम् । अनुकच्छं

कच्छप्रदेशेषु । जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविषःधः' इत्य-

मरः । दष्टेट्वेति अत्राप्यनुषज्यते । दग्धारण्येषु दावदग्धेष्वरण्येषु ।

अधिकसुरभिं दग्धस्थलपरिमलेभ्योऽतिशयेन घ्राणप्रीणनं नवजलाव-

सेकात् । सारङ्गशब्देनात्र चातकमधुकरहरिणास्त्रयोऽप्यर्थास्त्रिषु वा

क्येषु क्रमातन्त्रेणोच्यन्ते । 'सारङ्गः शबलो वर्णश्चातकः षट्प
दो
मृगः' इति वैजयन्ती । तत्र चातकानां कदम्बकुड्मलखण्डनम्,

षट्पदानां कन्दलीमुकुलदलनम्, मृगाणां दग्धस्थलपरिमलाघ्राणम् ।

अथ वा पूर्ववाक्येऽपि भ्रमराणामेव कर्तृत्वम्, चातकानां कदम्बचु-
म्व

म्ब
नस्याप्रसिद्धत्वात्; उत्तरवाक्ये क्रियान्तरोक्तेर्हरिणानाम् । प्घ्राणे
 
३६