This page has been fully proofread once and needs a second look.

३४
 
मेघसंदेशे ..
 
:
रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णो
 
2
 
णा
भक्तिच्छेदैरिव विरचितां भूतियङ्गे गजस्य ॥१९॥
 
>
 

 
अथ विश्रान्तस्यानन्तरकरणीयमनुवादमुखेन विदधाति -- स्थित्वा

तस्मिन्नित्यादि । वनचरवधूभुक्तकुञ्जे पुलिन्दसुन्दरीभिः स्वविहारेण

फ़लीकृतलताबिवितानकुहरे। ' निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितो-

दरे' इत्यमरः । अनेन गहनवनबहुलतया विशिष्टविलासिनामनुप-

भोग्यत्वं ध्वन्यते । मुहूर्ते यावद्विश्रमलाभम् द्रष्टव्यान्तराभावात् ।

तोयोत्सर्गद्रुततरगतिः तदनुग्रहाय तत्र प्रयुक्तेन वर्षेण गलितगौरव-

तया शीघ्रतरगमनः । तत्परं तस्मादूर्ध्वम् । वर्त्म मार्गम् । तीर्णः

उल्लङ्खिघितवान् । 'रेवा तु नर्मदा सोमोद्भवा मेखलकन्यका' इत्य:

मरः । उपलविषमे शिलाभिर्निम्नोन्नते, स्थूलविकटस्थित्या शिलाव-

द्विषमे वा । विन्ध्यपादे 'पादाः पर्यन्तपर्वताः' इत्यमरः । विशी-

र्णाम् उच्चावचशिलातलास्फालनस्खलित जर्जरिततया बहुमार्गीकृताम् ।

भक्तिच्छेदैः विन्यासविच्छित्तिविशेषैः । भूर्तितिं भस्म । ' भूतिर्भसितं

भस्म' इति हलायुषःधः । विन्ध्यस्य समासे गुणीभूतत्वेऽपि वस्तुतः

प्राधान्यात्तस्यैव गजेनोपमेयत्वम् । तुङ्गत्वदर्शनीयत्वादिः साधा-

रणो धर्मः ; रेवाभूत्योस्तु स्वच्छत्वपापहरत्वादिः । अत्र दृष्टान्तोऽलं-
.
 

कारः ॥ १९ ॥
 
.
 

 
तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तदृवृष्टि- !:

र्जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः ।