2023-02-17 12:54:32 by ambuda-bot
This page has not been fully proofread.
३४
मेघसंदेशे ..
: रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णो
2
भक्तिच्छेदैरिव विरचितां भूतियङ्गे गजस्य ॥१९॥
>
अथ विश्रान्तस्यानन्तरकरणीयमनुवादमुखेन विदधाति - स्थित्वा
तस्मिन्नित्यादि । वनचरवधूभुक्तकुञ्जे पुलिन्दसुन्दरीभिः स्वविहारेण
सफ़लीकृतलताबितानकुहरे। ' निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितो-
दरे' इत्यमरः । अनेन गहनवनबहुलतया विशिष्टविलासिनामनुप-
भोग्यत्वं ध्वन्यते । मुहूर्ते यावद्विश्रमलाभम् द्रष्टव्यान्तराभावात् ।
तोयोत्सर्गद्रुततरगतिः तदनुग्रहाय तत्र प्रयुक्तेन वर्षेण गलितगौरव-
तया शीघ्रतरगमनः । तत्परं तस्मादूर्ध्वम् । वर्त्म मार्गम् । तीर्णः
उल्लङ्खितवान् । 'रेवा तु नर्मदा सोमोद्भवा मेखलकन्यका' इत्य:
मरः । उपलविषमे शिलाभिर्निम्नोन्नते, स्थूलविकटस्थित्या शिलाव-
द्विषमे वा । विन्ध्यपादे 'पादाः पर्यन्तपर्वताः' इत्यमरः । विशी-
र्णाम् उच्चावचशिलातलास्फालनस्खलित जर्जरिततया बहुमार्गीकृताम् ।
भक्तिच्छेदैः विन्यासविच्छित्तिविशेषैः । भूर्ति भस्म । ' भूतिर्भसितं
भस्म' इति हलायुषः । विन्ध्यस्य समासे गुणीभूतत्वेऽपि वस्तुतः
प्राधान्यात्तस्यैव गजेनोपमेयत्वम् । तुङ्गत्वदर्शनीयत्वादिः साधा-
रणो धर्मः; रेवाभूत्योस्तु स्वच्छत्वपापहरत्वादिः । अत्र दृष्टान्तोऽलं-
.
कारः ॥ १९ ॥
.
तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तदृष्टि- !:
र्जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः ।