This page has been fully proofread once and needs a second look.

रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णो
भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥१९॥
 
अथ विश्रान्तस्यानन्तरकरणीयमनुवादमुखेन विदधाति-- स्थित्वा
तस्मिन्नित्यादि । वनचरवधूभुक्तकुञ्जे पुलिन्दसुन्दरीभिः स्वविहारेण
सफलीकृतलतावितानकुहरे। 'निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितो-
दरे' इत्यमरः । अनेन गहनवनबहुलतया विशिष्टविलासिनामनुप-
भोग्यत्वं ध्वन्यते । मुहूर्ते यावद्विश्रमलाभम् द्रष्टव्यान्तराभावात् ।
तोयोत्सर्गद्रुततरगतिः तदनुग्रहाय तत्र प्रयुक्तेन वर्षेण गलितगौरव-
तया शीघ्रतरगमनः । तत्परं तस्मादूर्ध्वम् । वर्त्म मार्गम् । तीर्णः
उल्लङ्घितवान् । 'रेवा तु नर्मदा सोमोद्भवा मेखलकन्यका' इत्य
मरः । उपलविषमे शिलाभिर्निम्नोन्नते, स्थूलविकटस्थित्या शिलाव-
द्विषमे वा । विन्ध्यपादे 'पादाः पर्यन्तपर्वताः' इत्यमरः । विशी-
र्णाम् उच्चावचशिलातलास्फालनस्खलितजर्जरिततया बहुमार्गीकृताम् ।
भक्तिच्छेदैः विन्यासविच्छित्तिविशेषैः । भूतिं भस्म । 'भूतिर्भसितं
भस्म' इति हलायुधः । विन्ध्यस्य समासे गुणीभूतत्वेऽपि वस्तुतः
प्राधान्यात्तस्यैव गजेनोपमेयत्वम् । तुङ्गत्वदर्शनीयत्वादिः साधा-
रणो धर्मः ; रेवाभूत्योस्तु स्वच्छत्वपापहरत्वादिः । अत्र दृष्टान्तोऽलं-
कारः ॥ १९ ॥
 
तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टि-
र्जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः ।