2023-02-18 17:48:49 by manu_css
This page has been fully proofread once and needs a second look.
प्रथमाश्वासः ।
३३
चूतद्रुमैः । अनेन जनानुपभोग्यत्वात्सम
संचयत्वमुक्तम् । सर्पवेणीसवर्णे सर्पवेणी नाम मेचकरुचिः कश्चित्
पदार्थः सर्पसदृशाकारः । 'नीलालके मेघचये मेचके स्तनचूचुके ।
मण्डले कृष्णसर्पाणां सर्पवेणी निगद्यते ॥' इति दिवाकरः । कामि-
नीकेशबन्धविशेषो वा, तत्समानच्छाये । सर्पवेणीति कृष्णभुजंगभो-
गमण्डलमिति केचित् । नूनं तर्के । 'तर्कनिश्
बै
वैजयन्ती । अमरमिथुनप्रेक्षणीयां धरणितलोदन्तसंदर्शनकुतूहलेन
वियति विमानेन संचरमाणानां सुरमिथुनानां प्रकर्षेणेक्षणयोग्याम् ।
मध्ये चूचुकप्रदेशे। शेषविस्तारपाण्डुः तद्व्यतिरिक्ते निजमण्डला-
भोगे तारुण्यजनितलावण्यपाण्डिमा; तथा रघुवंशे
रत्नप्
रत्नग्रथितोत्तरीयमेकान्तपाण्डुस्तनलम्बिहारम्' इति । उत्प्रेक्षाबलात्
बृ
वृत्तोत्तुङ्गनिवेशत्वं गिरेरप्यवसीयते । अत्र लवणसागरसलिलनीलपरि-
धानाया वनजनपदनगनगरचित्रतरपत्रभङ्ग
णीपूरतारहारनिकरहारिण्याः क्षितितरुण्या विकचकुवलयमेचक
द्विरदरदनखण्डपाण्डुमण्डल: कुचकलश इवायमिदानीमवनिधर इ-
त्युत्प्रेक्षमाणैर्विलासिभिरुल्लसितनर्मसंलापैर्वैमानिक मिथुनैः सकौतुकवि-
लोकनीयां कामपि रमणीयतामुपलप्स्यत इत्यर्थः । उत्प्रेक्षात्रालं-
कारः ॥ १८ ॥
स्थिता तस्मिन्वनचरवधूभुक्तकुञ्जे मुहूर्
तोयोत्सर्गद्रुततरगतिस्तत्परं वर्त्म तीर्णः ।
M3