This page has not been fully proofread.

मेघसंदेशे
 
1
 
मार्गगमनसंभृतेनायासेन समेतम्, तदानीं विशेषत: सत्कारस्यौचि-
त्यम्, अन्यथा तादर्थ्यमपि नातिदोषायेति भावः । सानुमान् पर्वतः
आम्रकूट इति नाम । कुतोऽत्र निश्चयः, जनमनसामनवस्थानादि-
त्याशंङ्कयाह — क्षुद्र: कुलादिभिर्नीचः । प्रथमसुकृतापेक्षया स्वविषये
पूर्वे तेन प्रयुक्तमुपकारमालोच्य । संत्र्याय स्वगृह निवासार्थम् । प्राप्ते
निधाविवात्मनान्वेषणीये स्वयमुपगत इत्यर्थः । मित्रे 'इइ लोक-
सुखं मित्रम्' इति लक्षितार्थस्य मित्रशब्दस्य मुख्याभिधेये पुंसि ।
अनेन अमगुरप्रेम/स्पदत्वं सुहृदां सूचितम् । तथा कुमारसंभवे-
'प्रमदास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृजने, इति । अत्र
नृणामिति न तु सतामिति सदसत्साधारणत्वम्, न चलमित्यर्भङ्गुर
त्वं च सुहृत्प्रेग्णः प्रकाशितम् । विमुखः प्रतिनिवृत्तमुखः, अनादर
इति यावत् । किं पुनर्य इत्याक्षिप्यते; तस्य स्वप्नेऽपि वैमुख्यं ना-
शङ्कनीयमिति भावः । तथेति, अनुभवाभिनयः । उच्चः उन्नतः,
प्राणात्ययेऽप्यनुचितेष्वदत्तदृष्टिरित्यर्थः । अत्र पूर्वार्धे समासोक्तिमूला-
प्रस्तुतप्रशंसा; उत्तरार्धेऽर्थान्तरन्यासः ॥ १७ ॥
 
३२
 
:
 
छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रै
स्त्वय्यारूढे शिखरमचलः सर्पवेणीसवर्णे । उक
नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां
 
मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥
त्वदुपगमेन तस्य लोकोत्तरचमत्कारत्वं भविष्यतीत्याह – छन्नो-
पान्त इति । स्थगितः अर्थात् शिखरसविधप्रदेशो यस्य । परिणत-
-