This page has been fully proofread once and needs a second look.

३१
 
कात् घ्राणेन्द्रियप्रीणनयुक्तम् । 'अथो फलम् । निरीषं कूटकं फाल:

कृषिको लाङ्गलं हलम् । गोदारणं च सीरः' इत्यमरः, 'सुरभिर्घ्राणत-

र्पण: ' इति च । क्षेत्रं केदारबहुलत्वात् पुण्यदेशत्वाद्वा । 'क्षेत्रं गृहे

पुरे देहे केदारे योगिभार्ययोः । पुण्यस्थाने समूहे च' इति वैजयन्ती।

आरुह्य, उन्नतस्थलत्वात् । मालमिति नाम्ना प्रसिद्धम् । 'मेघमन्म-

थयोर्मारो मारं मरणमिप्ष्यते । माला पुष्पादिबन्धे स्यान्मालमुन्नतभू-

तलम्' इत्युत्पलमाला । मालयोगान्माल इति हि देशः प्रसिद्धः ।

किंचित्पश्चात् पश्चिमां दिशमुद्दिश्य, मार्गसौन्दर्यानुरोधेन। लघुगतिः

शीघ्रगमनः, मध्ये विश्रमशैलाभावात् । 'लघु क्षिप्रमरं द्रुतम्' इत्य-

मरः । उत्तरेण उत्तरदिग्भागेन । भूयः पुनः, अङ्गीकृताया उत्तर-

दिशो मध्ये परित्यागात् । एवकारो भिन्नक्रमः, उत्तरेणैव प्रस्तुतेने-

त्यर्थः । अन स्वमाकोत्र स्वभावोक्तिरलंकारः ॥ १६ ॥
 
प्रथमाश्

 
त्
वासः ।
 
त्वा
मासारप्रशमितवनोपप्लवं साधु मूर्ध्ना

वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः ।

न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय
 

प्राप्ते मित्रे भवतिंति विमुखः किं पुनर्यस्तयोच्चैः ॥
१७ ॥
 
अथ दूरसरणिगमनस्त्रिखिन्नस्य विश्रमस्थानमुपदिशति-- त्वामिति ।

'आसारः स्यात्प्रसरणे वेगवृष्टौ सुहृद्वले' इति वैजयन्ती । प्रशमितः

प्रकर्षेण नाशितः वनोपप्लवः दवशेश्लेषलताशोषादिस्तटकाननोपद्रवो

यस्य। साधु सम्यक् । मूर्ध्ना शिखरेण, शिरसेति च । वक्ष्यतीति, वहतेर्धा-

तोर्लृटि। शिरसा वहनं नाम लक्षणया सत्कारातिशयः। अध्वश्रमपरिगतं