2023-02-17 12:54:32 by ambuda-bot
This page has not been fully proofread.
३१
कात् घ्राणेन्द्रियप्रीणनयुक्तम् । 'अथो फलम् । निरीषं कूटकं फाल:
कृषिको लाङ्गलं हलम् । गोदारणं च सीरः' इत्यमरः, 'सुरभिघ्रणत-
र्पण: ' इति च । क्षेत्रं केदारबहुलत्वात् पुण्यदेशत्वाद्वा । 'क्षेत्रं गृहे
पुरे देहे केदारे योगिभार्ययोः । पुण्यस्थाने समूहे च' इति वैजयन्ती।
आरुह्य, उन्नतस्थलत्वात् । मालमिति नाम्ना प्रसिद्धम् । 'मेघमन्म-
थयोर्मारो मारं मरणमिप्यते । माला पुष्पादिबन्धे स्यान्मालमुन्नतभू-
तलम्' इत्युत्पलमाला । मालयोगान्मालक इति हि देशः प्रसिद्धः ।
किंचित्पश्चात् पश्चिमां दिशमुद्दिश्य, मार्गसौन्दर्यानुरोधेन। लघुगतिः
शीघ्रगमनः, मध्ये विश्रमशैलाभावात् । 'लघु क्षिप्रमरं द्रुतम्' इत्य-
मरः । उत्तरेण उत्तरदिग्भागेन । भूयः पुनः, अङ्गीकृताया उत्तर-
दिशो मध्ये परित्यागात् । एवकारो भिन्नक्रमः, उत्तरेणैव प्रस्तुतेने-
त्यर्थः । अन स्वमाकोतिरलंकारः ॥ १६ ॥
प्रथमाश्वासः ।
त्वामासारमशमितवनोपप्लवं साधु मूर्ध्ना
वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः ।
न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय
प्राप्ते मित्रे भवतिं विमुखः किं पुनर्यस्तयोच्चैः ॥ ९
अथ दूरसरणिगमनस्त्रिन्नस्य विश्रमस्थानमुपदिशति – त्वामिति ।
'आसारः स्यात्प्रसरणे वेगवृष्टौ सुहृद्वले' इति वैजयन्ती । प्रशमितः
प्रकर्षेण नाशितः वनोपप्लवः दवशेषलताशोषादिस्तटकाननोपद्रवो
यस्य। साधु सम्यक् । मूर्ध्ना शिखरेण, शिरसेति च । वक्ष्यतीति, वहतेर्धा-
तोर्लटि। शिरसा वहनं नाम लक्षणया सत्कारातिशयः। अध्वश्रमपरिगतं