This page has been fully proofread once and needs a second look.

३०
 
मेघसंदेशे
 
त्वय्यायत्तं कृषिफलमिति भ्रूविलासानभिज्ञैः

श्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः ।

सद्यःसीरोत्कणसुरभि क्षेत्रमारुह्य मालं

किंचित्पश्चाद्व्रज लघुगतिर्भूय एवोत्तरेण ॥१६॥
 

 
पुनः प्रकृतमनुसरति-- त्वयीति । कृषिफलं कृषिः क्षेत्रसंस्कार-

बीजा<flag>वापादिको </flag>व्यापारः,
तस्य फलं संपूर्णसस्यसंपत्तिः तत् । त्वयि,
 
9
 

अधीनं परापेक्षया स्थितम्, तस्य समुचितसमयसंभविविशिष्टवृष्टिनि-
घ्

ष्
पाद्यत्वात् । इतिशब्दो हेतौ । भ्रूविलासानभिज्ञैः आरोचितप्रभृतीनां

भ्रूचेष्टितानामकोविदैः, उपलक्षणं चैतदन्येषामपि नयनविलासानाम्,

नगरसुन्दरीनयनारविन्दवत् कृत्रिमविलासविरचनास्वशिक्षितैरित्यर्थः ।

एतेन स्वारसिकविलासैरेव तेषां सहृदयचमत्कारकारित्वं ध्वनितम् ।

'अलसवलितैः प्रेमार्द्राद्रैर्मुहुर्मुकुलीकृतैः क्षणमभिमुखैर्लज्जालोले लैर्निमेष-

पराङ्मुखैः । हृदयनिहितं भावाकूतं वमद्भिरिवेक्षितैः कथय सुकृती

कोऽयं मुग्धे त्वयाद्य विलोक्यते ॥' इति मुग्धानामप्यकृत्रिमविलाससं-

पत्प्रतिपादनात् । तथा किराते-- 'अकृत्रिमप्रेमरसाभिरामं रामार्पितं

दृष्टिविलोमि दृष्टम्' इति। 'पुंसः पूर्वापरीभूता सुखित्वेन व्यवस्थितिः ।

बुद्धेरुन्मीलनी गाढं प्रीतित्वेन निगद्यते ॥' इति दिवाकरः ।

स्निग्धैः अस्तैःरूक्षैः। जनपदवध्वः राष्ट्राणां कृषीलबहुलतया अर्थातन्नि-

वासिकृषीलमहिलाः । पीयमानः स्नेहबहुमानौत्सुक्यातिरेकजनि-

तेन दर्शनेन कबलीक्रियमाणः । सद्यः सीरोत्कषणसुरभि समनन्तर-

मेव हलमुस्खोल्लिखितेषु र्मतप्तेषु प्रदेशेषु त्वदुपगमजनितनववर्षावसे-