2023-02-17 12:54:32 by ambuda-bot
This page has not been fully proofread.
३०
मेघसंदेशे
त्वय्यायत्तं कृषिफलमिति भ्रूविलासानभिज्ञैः
श्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः ।
सद्यःसीरोत्कपणसुरभि क्षेत्रमारुह्य मालं
किंचित्पश्चाद्वज लघुगतिर्भूय एवोत्तरेण ॥१६॥
पुनः प्रकृतमनुसरति— त्वयीति । कृषिफलं कृषिः क्षेत्रसंस्कार-
बीजावादको व्यापारः,
तस्य फलं संपूर्णसस्यसंपत्तिः तत् । त्वयि,
9
अधीनं परापेक्षया स्थितम् तस्य समुचितसमयसंभविविशिष्टवृष्टिनि-
घ्पाद्यत्वात् । इतिशब्दो हेतौ । भ्रूविलासानभिज्ञैः आरोचितप्रभृतीनां
भ्रूचेष्टितानामकोविदैः, उपलक्षणं चैतदन्येषामपि नयनविलासानाम्,
नगरसुन्दरीनयनारविन्दवत् कृत्रिमविलासविरचनास्वशिक्षितैरित्यर्थः ।
एतेन स्वारसिकविलासैरेव तेषां सहृदयचमत्कारकारित्वं ध्वनितम् ।
'अलसवलितैः प्रेमार्द्राद्रैर्मुहुर्मुकुलीकृतैः क्षणमभिमुखैर्लज्जालोले र्निमेष-
पराङ्मुखैः । हृदयनिहितं भावाकूतं वमद्भिरिवेक्षितैः कथय सुकृती
कोऽयं मुग्धे त्वयाद्य विलोक्यते ॥' इति मुग्धानामप्यकृत्रिमविलाससं-
पत्प्रतिपादनात् । तथा किराते – 'अकृत्रिमप्रेमरसाभिरामं रामार्पितं
दृष्टिविलोमि दृष्टम्' इति। 'पुंसः पूर्वापरीभूता सुखित्वेन व्यवस्थितिः ।
बुद्धेरुन्मीलनी गाढं प्रीतित्वेन निगद्यते ॥' इति दिवाकरः ।
स्निग्धैः अस्तैः। जनपदवध्वः राष्ट्राणां कृषीवलबहुलतया अर्थातन्नि-
वासिकृषीवलमहिलाः । पीयमानः स्नेहबहुमानौत्सुक्यातिरेकजनि-
तेन दर्शनेन कबलीक्रियमाणः । सद्यः सीरोत्कषणसुरभि समनन्तर-
मेव हलमुस्खोलिखितेषु घर्मतप्तेषु प्रदेशेषु त्वदुपगमजनितनववर्षावसे-