This page has been fully proofread once and needs a second look.

२९
 

 
नयनहारि, एतत्साहित्ये किंपुनरिति भावः । बर्हेणेति । जातावेकव·
-
चनम् । प्रालम्बावात्मना ग्रथितैर्मयूरपिञ्चैच्छैरित्यर्थः, तेषामपि शबलव-

र्णत्वात् । स्फुरितरुचिना शुद्धभ्श्यामले वपुषि शबलवर्णस्य परभाग-

लाभात् विभक्तोल्लसितलावण्येन । श्याममिति स्फुरितरुचिनेति च

साधारणो धर्मः । गोपवेषस्य वल्लवानां वेष इव वेषो यस्य । आक-

ल्पस्य कल्पना वेषः । अनेन रणितलमवतीर्णस्य पूर्णात्मनः पद्म-

नाभस्य कर्मबन्धनिबन्धनमन्तरेणैव धर्मसंस्थापनाय नटस्येव तत्तद्भूमि-

कावलम्बेन विवर्तः, न तु वास्तवः कश्चिद्विग्रहपरिग्रह इति द्योत्यते ;

'जगतामुपकाराय न सा कर्मनिमित्तजा । चेष्टा तस्याप्रमेयस्य व्यापि-

न्यव्याहतात्मिका' इति वचनात् । विष्णो: व्याप्तत्वेन वेदशिरसि

प्रतिपाद्यमानस्य, 'वेदान्तवेदिभिर्विष्णुः प्रोच्यते यो <flag>क्तो</flag>ऽस्मि तम् ?

इति वचनात् । अत्र भगक्त उपमानत्वात् उपमेयस्यापि मेघस्य

संकोचविकासशक्तत्वं स्वरसत एव परोपकारपरत्वं च द्योत्यते । 'ते'


इति केवलमेघस्यैवोपमेयत्वेन मोगोपवेषस्येति धर्माधिक्यमिति नाशङ्क-

नीयम्;
तस्यैव बर्हधारणोपपत्तेस्तद्विशिष्टस्यैव विष्टरश्रवस उपमान-

त्वात्, श्रीरामायणे-- 'सुप्तैकहंसं कुमुदैरुपेतं महाह्रदस्थं सलिलं

विभाति । शरत्प्रसन्नं परिपूर्णचन्द्रं तारागणाकीर्णमिवान्तरिक्षम् ॥'

इत्यत्र महाद्दूह्रदस्थमितिवत् । उपमात्रालंकारः । कस्यचिद्राज्ञः प्रस्था-

नारम्भे कुतश्चित्पुरुषादनर्रत्नाभरणोपहारप्राप्तिसमाधिरत्रानुसंधेयः ।

इन्द्रधनुषो दर्शनस्य यात्रायां मङ्गलत्वमुक्तम् । तथा च महायात्रा-

याम्-- 'चापमैन्द्रमनुलोममखण्डं प्रोज्ज्वलं बद्दलमायतमिष्टम् "
 
नीयम्;
 

इति ॥ १५ ॥
 
प्रथमाश्वासः ।