This page has not been fully proofread.

२९
 

 
नयनहारि, एतत्साहित्ये किंपुनरिति भावः । बर्हेणेति । जातावेकव·
चनम् । प्रालम्बात्मना ग्रथितैर्मयूरपिञ्चैरित्यर्थः, तेषामपि शबलव-
र्णत्वात् । स्फुरितरुचिना शुद्धभ्यामले वपुषि शबलवर्णस्य परभाग-
लाभात् विभक्तोल्लसितलावण्येन । श्याममिति स्फुरितरुचिनेति च
साधारणो धर्मः । गोपवेषस्य वल्लवानां वेष इव वेषो यस्य । आक-
ल्पस्य कल्पना वेषः । अनेन घरणितलमवतीर्णस्य पूर्णात्मनः पद्म-
नाभस्य कर्मबन्धनिबन्धनमन्तरेणैव धर्मसंस्थापनाय नटस्येव तत्तद्भूमि-
कावलम्बेन विवर्तः, न तु वास्तवः कश्चिद्विग्रहपरिग्रह इति द्योत्यते ;
'जगतामुपकाराय न सा कर्मनिमित्तजा । चेष्टा तस्याप्रमेयस्य व्यापि-
न्यव्याहतात्मिका' इति वचनात् । विष्णो: व्याप्तत्वेन वेदशिरसि
प्रतिपाद्यमानस्य, 'वेदान्तवेदिभिर्विष्णुः प्रोच्यते यो क्तोऽस्मि तम् ?
इति वचनात् । अत्र भगक्त उपमानत्वात् उपमेयस्यापि मेघस्य
संकोचविकासशक्तत्वं स्वरसत एव परोपकारपरत्वं च द्योत्यते । 'ते'

इति केवलमेघस्यैवोपमेयत्वेन मोपवेषस्येति धर्माधिक्यमिति नाशङ्क-
तस्यैव बर्हधारणोपपत्तेस्तद्विशिष्टस्यैव विष्टरश्रवस उपमान-
त्वात्, श्रीरामायणे– 'सुप्तैकहंसं कुमुदैरुपेतं महाहदस्थं सलिलं
विभाति । शरत्प्रसन्नं परिपूर्णचन्द्रं तारागणाकीर्णमिवान्तरिक्षम् ॥'
इत्यत्र महाद्दूदस्थमितिवत् । उपमात्रालंकारः । कस्यचिद्राज्ञः प्रस्था-
नारम्भे कुतश्चित्पुरुषादनर्धरत्नाभरणोपहारप्राप्तिसमाधिरत्रानुसंधेयः ।
इन्द्रधनुषो दर्शनस्य यात्रायां मङ्गलत्वमुक्तम् । तथा च महायात्रा-
याम्- 'चापमैन्द्रमनुलोममखण्डं प्रोज्ज्वलं बद्दलमायतमिष्टम् "
 
नीयम्;
 
इति ॥ १५ ॥
 
प्रथमाश्वासः ।