This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
परिहरति । पाथपथि परिहरन्निति । तदाघातशङ्कायामपथेनापि गन्तव्य-

मिति भावः । स्थूलहस्तावलेपान् प्रतिगजधिया समराय वा, गिरि-

तटबुद्धया वप्रक्रीडनार्थ वा, समाक्रष्टुं प्रसरतां महतां शुण्डाद-

ण्डानां मदभरजनितान् यत्किंचित्कारितालक्षणान् व्यापारान्; यथा

कुमारसंभवे-- 'तदीयास्तोयदेष्वद्य पुष्कलावर्तकादिषु । अभ्य-

स्यन्ति तटाघातं निर्जितैरावता गजाः' इति । अत्र प्रथमपादे संदे-

हालंकारः । अन्यत्र स्वभावोक्तिः ॥ १४ ॥
 
२८
 

 
रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ता-

द्वल्मीकाग्रात्प्रभवति धनुः खण्डमाखण्डलस्य ।

येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते
 

बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥
 

 
अथ मध्येमार्गकथनं गमनसमये प्रशस्तं दैवत एवोपपन्नं किमपि

मङ्गलमवलोक्य तदुद्धर्षणायाह – रत्नेति । रत्नच्छायाव्यतिकरः

व्यामिश्रितानां वज्रादीनां विचित्राणां नवानां रत्नानां संकीर्णः प्रभाप्र-

रोहसंदोह इवेत्यर्थः, इन्द्रधनुषो नानावर्णत्वात् । प्रेक्ष्यं पुरस्तात्

अग्रतो भवता दृष्टिर्देयेत्यर्थः । दर्शनीयमिति धनुषो विशेषणम् ।

वल्मीकाग्रादपि पाकशासनशरासनोदयः । उक्तं च संहितायाम्
--
'जलमध्येऽनावृष्टिर्भुवि सस्यवधस्तरूस्त्थिते व्याधिः । वल्मीके शस्त्रभयं

निशि सचिववधाय धनुरैन्द्रम्' इति । खण्डं अपूर्णस्वरूपम्, उत्प-

द्यमानदशाकत्वात् । आखण्डल: इन्द्रः । अतितरामिति । पूर्वमेव