This page has not been fully proofread.

प्रथमाश्वासः ।
 
-
 
अथ प्रतिज्ञातं मार्गकथनमारभते — अद्रेः शृङ्गमिति । अस्ये-
ति लभ्यते, 'स्थानादस्मात्' इत्युक्तेः । शृङ्गं न तु शिलामात्रम् ।
एतेन तुङ्गत्व विस्तृतत्वोक्तिः । किं स्विदिति । किंशब्दो विकल्पे ।
स्विच्छब्दः प्रश्ने । 'क्षेपे विकल्पे किम्' इति, 'प्रश्ने विकल्पे नु
स्विच्च' इति वैजयन्ती । उन्मुखीभिः उन्नमितवदनाभिः । चकि-
तचकितं अतिभयविवशम् । गगनशिरसि किमिदमनिलबलचलि
तमवनिधरशिखरम्, अपरमुत किमपि बृहदिति सरभसमुपरिपरिपत-
नभयभरतरलनयनकुबलयमनिभृतकुचमुकुलमभिरुचितजनमनुयुञ्जा-
नाभिरित्यर्थः । अत्र हेतुः – मुग्धाभिः अनतिनिर्भरयौवनाभरण-
त्वादविदितवस्तुतत्त्वाभिः, सिद्धाः खडगुलिकाञ्जनादिधारिणो देव-
योनिविशेषाः तेषां वधूभिः । सिषाधयिषितकार्योद्योगभारः उत्साहः ।
अनेन त्रासशङ्काविस्मयौत्सुक्यतरङ्गित विविधविलासभङ्गिङ्गाणां दि
विचराङ्गनापाङ्गानां प्रथमत एव भाजनं भविष्यतीत्यद्दो प्रथमखनन
एव निधिदर्शनमिति द्योत्यते । सरसनिचुलात् विमलसलिलबहुल-
तया सतततरुणवेतसतरुविशेषात् । 'निचुलो हिञ्जलोऽम्बुज: '
इत्यमरः । एतच्च मदजलनिर्झरोद्गारमण्डितगण्डमण्डलतया चण्ड-
तापविनोदनाय शीतलतमममुं प्रदेशमुद्दिश्य तेषामागमनं संभाव्यत
इति व्यञ्जयति ; इदानीमत्र वृष्टिर्नापेक्षिता, तत् गमन एबोयुज्य-
तामिति वा त्वत्कृतेदानीन्तनवर्षनवीकृततरुतया याबदागमनमिह
न शोषशङ्केति वा । खमुत्पतेति । सकलदेशदर्शनसौकर्याय गगन-
शिखरमारोहेत्यर्थः । दिङ्नागानाम् ऐरावतादीनाम्; बहुभिरेकस्य
विरोधो न युक्तोऽपनयत्वादिति भावः । एतेन समररतत्वशङ्कामस्य