This page has been fully proofread once and needs a second look.


इत्यादि च वक्ष्यमाणं
मेघसंदेशे
 
इत्यादि च वक्ष्यमाणं मेघ
गमनौचित्यापेक्षयेति मन्तव्यम् । तदनु

मार्गश्रवणानन्तरम् । श्राव्यबन्धं श्रोतव्यशब्दसंदर्भम्, अतिकरुणा-

र्थपरिपोषितविप्रलम्भरससुधानिर्भरगर्भत्वात् । शृणोतेः 'ओराव-

श्यके' इति ण्यत्प्रत्ययः । जलदेति, श्रवणसमये रसार्द्रहृदयतया

तवापि बहुलबावाष्पंझरीपरीतनयनता भाविनीति द्योत्यते ; यथा वक्ष्य-

ते ——-- त्वामप्यास्रं नवजलमयं मोचयिष्यत्यवश्यं प्रायः सर्वो भवति

करुणावृत्तिरार्द्रान्तरात्मा' इति । खिन्नः खिन्नः अध्वगमनेन यदा

यदा श्रान्तिरुद्भवति, तदा तदेत्यर्थः ; 'अध्वखिन्नान्तरात्मा' इति

वक्ष्यमाणत्वात् । शिखरिषु न पुनर्नगमात्रेषु ; गगनसरणिवितततुङ्ग-

शृङ्गाणामेव त्वदुपगमयोग्यत्वमिति भावः । क्षीणः क्षीण: उचित-

प्रदेशवर्षणेन यदा यदा सलिलविच्छेदो भवति, तदा तदेत्यर्थः ।

स्रोतसाम् अगाधतया शश्वदविच्छिन्नप्रसाराणां महानदीप्रवाहाणाम् ।

अत एव तरुकुञ्जशिलाकुञ्जाद्यभिघट्टनेन परिलघु सर्वतो गलितगौ-

रवम् । "उपलास्फालनाक्षेपविच्छेदैः खेदितोदकाः । हिमवन्मलयो-

द्भूताः पथ्याः' इति बावाहट: । उपलक्षणं चैतन्माधुर्यनैर्मल्ययोः ।

अनेन तव शरीरस्थितिचिन्ता विश्रमस्थानचिन्तापि न भविष्यतीति

द्योत्यते । अत्र स्वभावोक्तिरलंकारः ॥ १३ ॥
 
२६
 
6
 

 
अद्रेः श्रृङ्गं हरति पवनः किंस्विदित्युन्मुखीभि-

र्दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः ।

स्थानादस्मात्सरसनिचुलादुत्पतोदङ्मुखः खं
 

दिङ्नागानां पथि परिहरन्स्थूलहस्तावलेपान् ॥