2023-02-17 12:54:31 by ambuda-bot
This page has not been fully proofread.
२५
चिरविरहजं संवत्सरदर्शनाभावदुःखसंभृतम् । बाप्पं अश्रु, धर्म-
दुर्मददबदहनमिहिरकिरणसंतप्ततया प्रथमवर्षावसेके प्रसरन्तमूष्माणं
च । 'बाष्पोऽश्रुण्यम्बुधूमे च इति वैजयन्ती। अनेन चिरादुपगते
हि सुहृदि तदनुरागिणो जनस्यातीतविरहदुःखानुस्मरणहेतुकं झटिति
प्रवृत्तमश्रुसलिलमनुमापयति तद्विषयं हृदयगतमनुरागातिशयम्; एव-
मस्यापीति द्योत्यते । एत्य मुञ्चत इत्यन्वयः । श्लेषोऽलंकारः । तद-
नुगृहीताप्रस्तुतप्रशंसा वा ॥ १२ ॥
प्रथमाश्वासः ।
मार्ग तावच्छृणु कथयतस्त्वत्प्रयाणानुरूपं
संदेशं मे तद्नु जलद श्रोष्यसि श्राव्यबन्धम् ।
खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र
क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य ।
एवमनुष्ठितानुष्ठेयस्य प्रतिष्ठमानस्य भवतः कृत्यद्वयमिदानीमष-
शिष्टं मार्गश्रवणं संदेशश्रवणं च; तयोः प्रथममावितया प्रथमं मार्ग-
मवधारयेत्याह-- मार्गमिति । तावत् इतो देशाद्यदवधि गन्तव्यं
' तदवधि, साकल्येन वा । 'यावत्तावञ्च साकल्येऽवधौ मानेऽवधारणे'
इत्यमरः । शृण्विति । श्रवणमेव प्रार्थ्यते, ग्रहणादीनि महामेधाविन-
स्तवानुषङ्गिकानीति भावः । मे मत्सकाशादित्यर्थः । त्वययाणानुरूपं
रसिकजनमौलेः परमेश्वरभक्तिशालिनस्तव यात्रानुगुणो भुक्तिमुक्ति-
साधनमेकः पन्थाः, नीरसानां नास्तिकानां च कमपि पुमर्थमस्पृशन्नन्य
एवेति मावः । अनेन दयिताजीवितपरिरक्षणकृतक्षणतया त्वरित-
स्यापि 'वक्रः पन्थास्तव मवतु च' इति, 'स्थातव्यं ते नयनविषयम् '