This page has been fully proofread once and needs a second look.

V ता.
 
२४
 
मेघसंदेशे
 
काले काले भवति भवलेता यस्य संयोगमेत्य

स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम् ॥
 
6
 
"
 
""
 
समान-

 
एवं स्थितेऽनन्तरकर्तव्यमाह -- आपृच्छस्वेत्यादि । 'आङि नु-

प्रच्छ्योः ' इत्यात्मनेपदम् । गमनानुज्ञानार्थमामन्त्रणम् आप्रश्नः

आपृच्छय राघवमनुष्ठितदेवकार्यम्' इतिवत् । प्रियसखं इष्टसुहृदम्,

समये तव विश्रमदायित्वात् त्वया वर्षणेनोपकृतत्वाच्च, न खलु

तदनुशाज्ञामन्तरेण पदमपि गन्तुं युक्तमिति भावः । तुङ्गम् उन्नतम्,

अभ्रंलिशिखरं च ; यथा दिवाकरः-
- 'बुद्धिनीं पथेनात्मवृत्तिं

वर्तयितुं रहः । यस्य जातु न जायेत सोऽयमुन्नतसंज्ञितः । इति ।

अनेन तुङ्गस्य भवतस्तादृशैव सख्यं घटत इति द्योत्यते,
‘समान-
चित्तवृत्तित्वं मित्रत्वमिति दर्शितम्' इति लक्षितत्वात् । आलि-

ङ्ग्
येति । चिरदृष्टस्य भवतो झटिति यात्राप्रसङ्गस्तेन नानुमोद्येत;

अतस्तमनुनयपूर्वमनुकूलयेति भावः । पुंसां वन्द्यैः दर्शनमात्रेण तॆतेषां

पुरुषार्थसाधकैः । मेखलासु कटकेषु । बहुवचनेन ग्रहाश्चर्यदिदृक्षया

तत्र तत्र भगवतो विहरणं व्यज्यते । मेखलास्वङ्कितमित्यत्र भक्त-

समाधिः ; तेऽपि कनकपट्टादिनिविष्टानीष्टदेवताचरणप्रतिबिम्बानि

कण्ठसूत्रकटिसूत्रादिषु धारयन्ति; यथा 'श्रीकण्ठपदलाञ्च्छनो भव-

भूतिर्नाम कविः' इति । अथ मेखला । श्रोणीस्थानेऽद्रिकटके

कटिबन्धेऽसिबन्धने' इति वैजयन्ती । अनेन महापुरुषाभिगम्यत्व-

मप्यस्येति स्फुरति । काले काले प्रतिप्रावृडारम्भे, तदानीमेव भव
-
दागमननियतेः । स्नेहव्यक्तिः प्रेमप्रकाशनम्, स्निग्धवर्णोदयश्च ।
 
-