This page has not been fully proofread.

V ता.
 
२४
 
मेघसंदेशे
 
काले काले भवति भवले यस्य संयोगमेत्य
स्नेहव्यक्तिचिरविरहजं मुञ्चतो बाष्पमुष्णम् ॥
 
6
 
"
 
""
 
समान-
एवं स्थितेऽनन्तरकर्तव्यमाह - आपृच्छस्वेत्यादि । 'आङि नु-
प्रच्छ्योः ' इत्यात्मनेपदम् । गमनानुज्ञानार्थमामन्त्रणम् आप्रश्नः
आपृच्छय राघवमनुष्ठितदेवकार्यम्' इतिवत् । प्रियसखं इष्टसुहृदम्,
समये तव विश्रमदायित्वात् त्वया वर्षणेनोपकृतत्वाच, न खलु
तदनुशामन्तरेण पदमपि गन्तुं युक्तमिति भावः । तुङ्गम् उन्नतम्,
अभ्रंलिइशिखरं च ; यथा दिवाकरः-
'बुद्धिनींचपथेनात्मवृत्तिं
वर्तयितुं रहः । यस्य जातु न जायेत सोऽयमुन्नतसंज्ञितः । इति ।
अनेन तुङ्गस्य भवतस्तादृशैव सख्यं घटत इति द्योत्यते,
चित्तवृत्तित्वं मित्रत्वमिति दर्शितम्' इति लक्षितत्वात् । आलि-
नयेति । चिरदृष्टस्य भवतो झटिति यात्राप्रसङ्गस्तेन नानुमोद्येत;
अतस्तमनुनयपूर्वमनुकूलयेति भावः । पुंसां वन्द्यैः दर्शनमात्रेण तॆषां
पुरुषार्थसाधकैः । मेखलासु कटकेषु । बहुवचनेन ग्रहाश्चर्यदिदृक्षया
तत्र तत्र भगवतो विहरणं व्यज्यते । मेखलास्वङ्कितमित्यत्र भक्त-
समाधिः ; तेऽपि कनकपट्टादिनिविष्टानीष्टदेवताचरणप्रतिबिम्बानि
कण्ठसूत्रकटिसूत्रादिषु धारयन्ति; यथा 'श्रीकण्ठपदलाञ्च्छनो भव-
भूतिर्नाम कविः' इति । अथ मेखला । श्रोणीस्थानेऽद्रिकटके
कटिबन्धेऽसिबन्धने' इति वैजयन्ती । अनेन महापुरुषाभिगम्यत्व-
मप्यस्येति स्फुरति । काले काले प्रतिप्रावृडारम्भे, तदानीमेव भव ॥
दागमननियतेः । स्नेहव्यक्तिः प्रेमप्रकाशनम्, स्निग्धवर्णोदयश्च ।
 
-