This page has been fully proofread once and needs a second look.

प्रथमाश्वासः ।
 

इति । अवन्ध्यां अशून्यां कृषिमुखतत्तत्कार्यव्यापृतकृषी चलादिसंकुलां

नानाविधसस्यप्रसवयोग्याम्' कृष्यादिचोदनालक्षणत्वाद्द्वर्जितस्य ।

श्रवणसुभगं निदाघदाहकदर्थितानां जनानामपेक्षायां संनिकृष्टदृवृष्टिसुख-

सूचकतयोदीर्णत्वात्कर्णामृतायमानम्। मानसोत्काः पातिपङ्काङ्कितवसुधाङ-
ङ्क-
णरिङ्णातङ्कशङ्कया कलुषनवोदक कब लितकमलषण्डखण्डितमदतया

सर्वर्तुसुखं निजराजधानीं मानसं सरोऽभिगन्तुम् उत्सुकाः ।

'उत्क उत्कण्ठितः प्रोक्तः' इति हलायुधः । आ कैलासादिति, मध्ये

विच्छेदाभाव उक्तः ; त्वद्यात्रावधिभूतः कैलास एव तेषामप्यवधि-

रित्यर्थः । बिसकिसलयच्छेदपाथेयवन्तः अकठोरमृणालशकलरूप-

पथ्यशनशालिनः । बिसकिसलयं चिबिसाङ्कुरम् ; तथा चोत्तररामच-

रिते-- 'येनोद्गच्छद्विबिसकिसलय स्निग्धदन्ताङ्कुरेण' इति । पथि

भोजनार्थे संगृहीतमन्नं पाथेयम्; यथा किराते-- 'जग्राह पायेय-
थेय-
मिवेन्द्रसूनुः' इति । संपत्स्यन्त इति । अहो ते दैवानुकूल्यम्; यद-

नायासेन गुणवत्सहायसंपदिति भावः । नभसि, द्राघीयसि निर्जने

गगनाध्वनि एकाकिनो गमनमयुक्तमिति भावः; 'एको न गच्छे-

दध्वानम्' इति स्मृतेः । राजहंसा इति, विहगश्रेष्ठत्वात् गुणवत्त्वं

तेषां ध्वनति । 'अनुप्लवश्वाचानुचरः सहायोऽभिसरः समाः' इत्यमरः ।

विरुद्धानामपि हंसानां सहायतोक्तिः, वर्षकलुषितजलाशयमात्रे तेषां

द्वेषात् जलधरेण सह साक्षाद्विरोधाभावात् समानदेशगमनाच्चेति

मन्तव्यम् । अत्र स्वभावोक्तिरलंकारः ॥ ११ ॥
 
२३
 

 
आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्गयय्स शैलं

वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेखलासु ।