This page has been fully proofread once and needs a second look.

२२
 
मेघसंदेशे
 

आशा, सैव बन्धो निगलः, अथवा तया बन्धनम् । कुसुमसदृश-

प्राणं प्राणः बलम् ! 'प्राणस्तु प्रणये जीवे जीविते परमात्मनि ।

इन्द्रिये वायुभेदे च बलान्तर्यामिणोरपि' इति वैजयन्ती । पुष्प-

तुल्यबलम् अतिसुकुमारम् । अपिर्विरोधे । अङ्गनानां मुदुप्रकृतीनां

स्त्रीविशेषाणाम् । सद्य:पातप्रणयि यस्मिन्क्षणे दुःखप्राप्तिः, तत्क्षण

एव पाते नाशे प्रणयि बद्धोद्योगम् । हृदयं मनसोऽधिष्ठानभूतं

हृत्पुण्डरीकम् । रुणद्धि निवारयति, स्फुटनादिति शेषः । अन्यथा

स्फुटत्येव ; यथा कादम्बर्याम्-- 'चन्द्रापीडस्य स्वभावसरसं हृदय-

मस्फुटत् ' इति । यदि निधिपतिरवधिं न व्यधास्यत्, तदावयो-

स्तदानीमेव हृदयं स्फुटितमभविष्यत् ; नातिदीर्घस्यावधेः संभवा-

त्समागमाशातन्तुसंदानितहृदयतया अहमेव तस्या अभ्प्यव्यापत्ति
तिं
निश्चिनोमीत्यर्थः । अर्थान्तरन्यासोऽलंकारः ॥ १० ॥
 

 
कर्तुं यच्च प्रभवातवति महीमुच्छिलीन्ध्रामवन्ध्यां

तच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः ।

आ कैलासाद्धिबिसकिसलयच्छेदपाथेयवन्तः
 

संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥

 
दूरं गच्छतस्तव संलापादिना विनोदनाय निरायासमेव सहचरा

अपि संपत्स्यन्त इत्याइ–ह-- कर्तु यच्चेत्यादि । चकारो वाक्यार्थ-

समुच्चये । प्रभवति परानपेक्षया शक्तं भवति । महीं भूमात्रमेव, न

पुनर्देशविशेषम् । उच्छिलीन्भ्ध्राम् उद्भिन्नकन्दलकुसुमाम्; यथा

माघे-- 'नवकदम्बरजोरुणिताम्बरैरधिपुरुन्ध्रि शिलीन्ध्रसुगन्धिभिः ।'