This page has been fully proofread once and needs a second look.

प्रथमाश्वासः ।
 
२१
 

पूर्वे तत्प्रयोजनप्रतिपादनं गमनरसापादनार्थम् । अथ प्रस्तुत-

स्वार्थसिद्धिमाह -- तामिति । तां प्रस्तुताम् । चकारः फलान्तरस-

मुच्चये । अवश्यम् अव्यभिचारेण । दिवसगणनातत्परां न तु मासग-

णनातत्पराम् । अनेनैतदुक्तं भवति-- विरहावधिभूतस्य संवत्सरस्य

प्रथमदिवसादारभ्य निर्विनोदतया सुदुस्तरे यत्नादतिवाहिते दिवसे,

अयं तावत्प्रथमो दिवसोऽतीतः, अयमपि द्वितीयोऽतीत इत्येवम-

नुदिनं संख्यानैकहृदयाम् । इदमाशाबन्धनिबन्धनमुक्तं बेवेदितव्यम् ।

एकपत्नीं पतिव्रतामिति दिवसगणनाहेतुः ; साध्वीनां पतिविषय-

चिन्तैव, नान्या क़ाकाचिदिति भावः । अव्यापन्नाम् अत्र व्यापदिति

विरहविकसितकुसुमशरहेतुकः शरीरापाय उच्यते, आपदन्तरासंभवा-

त्तादृशाम्; तथा च कुमारसंभवे-- 'यौवनान्तं वयो यस्मिन्नातङ्कः

कुसुमायुधः' इति । तद्रहिताम् । अवितगतिः चण्डतरमण्डलप-

वनखण्डितदेहत्वादिभिर्विघ्नैरनुपहतगमनः । अनेनान्यतरवैकल्येऽपि

गमनवैफल्यशल्यापातः सूचितः । द्रक्ष्यसि विलोकयिष्यसि । भ्रातृ-

जायां निरन्तरस्नेहयन्त्रितत्वात् सखित्वाच्चाहं परमोपकारिणस्तव

धर्मतो भ्रातैव, ततस्तां मम धर्मपत्नीं रघुवीरसारलक्षणो लक्ष्मण इव

जानकीं द्रष्टुमर्हस्त्वमिति द्योत्यते । ततश्च तस्याः शीलसंपत्, द्रष्टुश्च

जितेन्द्रियत्वम्, स्वस्य तस्मिन् विश्वासातिशयनिदानं सौहार्दातिश-

यभूमिश्च प्रतीयते । तथा चोक्तम्-- दर्शितानि कलत्राणि गृहे

भुक्तमशङ्कितम्। कथितानि रहस्यानि सौहृदं किमतः परम् ॥'

इति । अव्यापन्नेति कथं निश्चीयत इत्यत्राह-
- आशाबन्ध इति ।
'कालेनापीदं भविष्यति' इत्यभिमतविषये
 
आशाबन्ध इति ।
 
लिप्साया अविच्छेदः
 
-