This page has been fully proofread once and needs a second look.

मेघसंदेशे
 

नीलपयोदनिकटसंचरणे गर्भधारणमिति प्रसिद्धि; तथा श्रीरामायणे

सूचितम्-- 'मेघाभिकामा परिसंपतन्ती संमोदिता भाति बलाक-

पतिः' इति। तत्रापि गर्भाधानौत्सुक्यमेव बलाकासंबन्धहेतुर्मन्तव्यः,

हेत्वन्तरानिरूपणात् । नूनम् असंशयम् । 'तर्कनिश्चययोर्नूनम्' इति

वैजयन्ती । आबद्धमालाः विरचितपङ्क्तयः । खे आकाशे । माला-
श-
ब्देन गगनमण्डले पुण्डरीकमालिका इव निबद्धा इत्यपि स्फुरति ।

नयनसुभगाः मरतकमणिरमणीयकान्तेस्तवान्तिके चरन्त्यो निस्तल

स्थूलमौक्तिकरुचयस्ताः परभागलाभान्नयनग्राहिण्य इत्यर्थः । बला-

काः बिसकण्ठिकाः । सेविष्यन्ते रागोन्मत्ताः स्वयमनुयास्यन्ति;

विषयिणश्चातः परं को ला इति माभावः । यथा मदनतन्त्रे
--
'यत्र स्त्री स्वयमेव रतिं प्रार्थयते तदुत्तमरतम्' इति । एतेन

सौभाग्यातिशयोऽस्य ध्वनितः । अत्र च विदम्भग्धमन्त्रिवृद्धाभिचोदि--

तस्य स्निग्धचेतसा पुरोधसा प्रयुज्यमानपरमाशीर्वचनस्य सुहृदयें
र्थे
प्रतिष्ठमानस्य गुणवततॊतो महीपतेर्भविष्यदनवद्यराजकन्यारत्नसंप्रातिकस्य
प्तिकस्य
संपत्स्यमानसिषाधयिषितकार्यसिद्धेश्च समाधिरनुसंधेयः । सुहृज्जनह-
हृ-
दयसंवादोऽपि यात्रायामभिमतसिद्धिसूचक इत्यपि ज्ञाप्यते । सम्मम
मा-
सोक्तिरनुमानं चालंकारः ॥ ९ ॥
 

 
तां चावश्यं दिवसगणनातत्परामेकपत्नी-

मव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् ।

आशान्धः कुसुमसदृशमाप्राणमप्यङ्गनानां

सद्यःपातप्रणयि हृदयं विप्रयोगे रुणद्धि ॥ १० ॥
 
२०