This page has been fully proofread once and needs a second look.

प्रथमाश्वासः ।
 
१९
 

यथा रघुवंशे-- 'तस्य जातु मरुतः प्रतीपगा वर्त्मनि ध्वजपटप्रमा-

थिनः । चिक्लिशुर्भृशतया वरूथिनीमुत्तटा इव नदीरया: स्थलीम्'

इति । नुदति प्रेरयति, गमनायेति शेषः । विशिष्टफललाभसूचकत्वात्

गमनाय त्वरयतीवेति द्योतकशून्योत्प्रेक्षा अनुकूल: यामुद्दिश्य गन्ता
ब्

व्
रजति, तामेव दिशं प्रति वायोरनुगमनमानुकूल्यम्; यथा रघु-
बं

वं
शे— 'पवनस्यानुकूलत्वात्प्रार्थनासिद्धिशंसिनः । रजोभिस्तुरगोद्धू-

तैरस्पृष्टालकवेष्टनौ' इति । यथा येन प्रकारेण । वामः वामभाग-

स्थितः, चातकस्य वामभागस्थितौ प्राशस्त्यात् ; यथा योगयात्रायां

वराहमिहिर:-- 'चुचुन्दरीसूकरिकाशिवालिश्यामागलीपिङ्गलिकान्य-

पुष्टाः । वामाः प्रशस्ता गृहगोधिका च पुंसंज्ञका ये तु पतत्रिणश्च'

इति । तथा महायात्रायाम्-- 'न तु भाद्रपदे ग्राह्याः सुकराश्वबृ-
वृ-
कादयः । शरद्यजागली क्रौञ्चाः श्रावणे हस्तिचातका:' इति काल-

विशेषनिषेधात् कालान्तरे चातकस्वरस्य प्रशस्तत्वम् । सगन्धः,

अत्रापि यथाशब्दोऽनुषज्यते । तव प्राणभूतः समीरणो यथा त्वां

चोदयति, त्वद्दत्तजीनैकशरणस्त्वदन्यवदान्यविमुखश्चातकश्च यथा

प्रशस्तभागस्थितः 'गम्यतामर्थलाभाय क्षेमाय विजयाय च '' इतिवत्

श्रवणसुभगमाभाषते । तथाशब्दोऽध्यार्तव्यः, गम्यत्वान्नोपात्तः ।

तेन प्रकारेण, लिङ्गेनोन्नीयते; यथोक्तं हर्षचरिते-- 'निधिस्तरुवि-

कारेण सन्मणिः स्फुरता धाम्ना । शुभागमो निमित्तेन स्पष्टमाख्यायते

लोके' इति । तथा शाकुन्तले-- 'हळा सउन्दळे एदाए अब्भुव
-
पत्तीए सूइदा दे भत्तुणो गेहे अणुहोदव्वा राअळच्छी' इति ।

गर्भाधानक्षमपरिचयात् अपत्योत्पादनशक्तादभ्यासात् । बलाकानां