This page has not been fully proofread.

प्रथमाश्वासः ।
 
१९
 
यथा रघुवंशे – 'तस्य जातु मरुतः प्रतीपगा वर्त्मनि ध्वजपटप्रमा-
थिनः । चिक्लिशुर्भृशतया वरूथिनीमुत्तटा इव नदीरया: स्थलीम्'
इति । नुदति प्रेरयति, गमनायेति शेषः । विशिष्टफललाभसूचकत्वात्
गमनाय त्वरयतीवेति द्योतकशून्योत्प्रेक्षा अनुकूल: यामुद्दिश्य गन्ता
ब्रजति, तामेव दिशं प्रति वायोरनुगमनमानुकूल्यम्; यथा रघु-
बंशे— 'पवनस्यानुकूलत्वात्प्रार्थनासिद्धिशंसिनः । रजोभिस्तुरगोद्धू-
तैरस्पृष्टालकवेष्टनौ' इति । यथा येन प्रकारेण । वामः वामभाग-
स्थितः, चातकस्य वामभागस्थितौ प्राशस्त्यात् ; यथा योगयात्रायां
वराहमिहिर:– 'चुचुन्दरीसूकरिकाशिवालिश्यामागलीपिङ्गलिकान्य-
पुष्टाः । वामाः प्रशस्ता गृहगोधिका च पुंसंशका ये तु पतत्रिणश्च'
इति । तथा महायात्रायाम् – 'न तु भाद्रपदे ग्राह्याः सुकराश्वबृ-
कादयः । शरद्यजागली क्रौञ्चाः श्रावणे हस्तिचातका:' इति काल-
विशेषनिषेधात् कालान्तरे चातकस्वरस्य प्रशस्तत्वम् । सगन्धः,
अत्रापि यथाशब्दोऽनुषज्यते । तव प्राणभूतः समीरणो यथा त्वां
चोदयति, त्वद्दत्तजीबनैकशरणस्त्वदन्यवदान्यविमुखश्चातकश्च यथा
प्रशस्तभागस्थितः 'गम्यतामर्थलाभाय क्षेमाय विजयाय च ' इतिवत्
श्रवणसुभगमाभाषते । तथाशब्दोऽध्याइर्तव्यः, गम्यत्वान्नोपात्तः ।
तेन प्रकारेण, लिङ्गेनोन्नीयते; यथोक्तं हर्षचरिते– 'निधिस्तरुवि-
कारेण सन्मणिः स्फुरता धाम्ना । शुभागमो निमित्तेन स्पष्टमाख्यायते
लोके' इति । तथा शाकुन्तले– 'हळा सउन्दळे एदाए अब्भुव
पत्तीए सूइदा दे भत्तुणो गेहे अणुहोदव्वा राअळच्छी' इति ।
गर्भाधानक्षमपरिचयात् अपत्योत्पादनशक्तादभ्यासात् । बलाकानां