This page has been fully proofread once and needs a second look.

१८
 
मेघसंदेशे
 
-
 
:
 

दः' इति । उपेक्षेत झटिति समागमनेन नाश्वासयेत् । अनवक्लृप्तौ

लिङ् । जायां धर्मपत्नीम् । अनेनान्यथा धर्मलोपोऽपि स्यादिति

दर्शितम्, तद्विनाशे गृहस्यैव नाशात् कृत्यप्रयोजककर्तृत्वमपि

तवेति भावः । त्वय्येव तद्याप्तिभङ्ग इति चेत्तत्राह -- न स्यादिति ।

अन्योऽपि यः पुमान् अयं जन इव पराधीनवृत्तिर्न स्यात्, अहं

यथा अनतिक्रमणीयेन स्वामिना परतन्त्रः एवं परतन्त्रता यस्य

नास्ति स इति वैधयो॑र्म्योदाहरणमेतत् । उत्तरवाक्यगतो यच्छन्ब्दः

सामर्थ्यात् पूर्ववाक्यगतं तच्छन्ब्दमाक्षिपति; यथा कुमारसंभवे-
-
'किं येन सृजति व्यक्तमुत येन बिभर्षि तत्' इति । यथा माघे-
-
'अमृतं नाम यत्सन्तो मन्त्रजिह्वेषु जुह्वति' इति । अन्य इति । इतो

जनादित्यर्थात्सिध्यति ; अतस्तव नापराधः, ममैव दग्धदैवनिबद्धपार-

तन्त्र्यनिगलयन्त्रितस्य कर्मदौरात्म्यमिति भावः । अत्र अप्रस्तुतप्रशंसा-

लंकारः, मेघस्योद्दीपनविभावतापौष्कल्यस्य कार्यमुखेन प्रतिपादनात्॥

 
मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां

वामश्राचायं नदति मधुरं चातकस्ते सगन्धः ।

गर्भाधानक्षमपरिचयान्नूनमाबद्धमालाः
 

सेविष्यन्ते नयनसुभगाः खे भवन्तं बलाकाः ॥९॥

 
भवतः प्रस्थानप्रस्तावे प्रादुर्भवति सुनिमित्तसंपत्तिरपि मदर्थती-

र्थस्य भवतः फलस्वामिनश्च मम भविष्यन्तीमभिलषितसिद्धिमभि-

व्यनक्तीत्याह श्लोकद्वयेन-- मन्दमिति । मन्दं मन्दं मृदुतरम्, नवं

नवमितित् । अनेनानायासजनकत्वमुक्तम्, अन्यथा क्लेशाबद्दवहत्वात्;
 
1