This page has not been fully proofread.

१७
 
-9
 
उद्वहः सुवहस्तथा । संवहः प्रवहश्चैव तत ऊर्ध्व परावहः ॥ तदूर्ध्व
स्यात्परिवहो वायोर्वै सप्त नेमयः' इत्युक्तानां सप्तानां वायुमार्गाणा-
मधस्तनमावहाख्यस्य वायोः स्कन्धरूपं पन्थानम् आस्थितम् तस्य
मेघमार्गत्वात्, पवनाधीनसंचारणत्वाच्च मेघानाम् । उद्गृहीताल-
कान्ताः करकिसलयैरूर्ध्वोकृताः प्रलम्बत्वान्नयनरुधः चूर्णकुन्तला-
ञ्चलाः याभिस्ताः । प्रेक्षणस्वभावोक्तिः । पथिकवनिताः धनार्जना-
दिहेतोर्गृहात्प्रोषितानां भार्याः । प्रत्ययात् विश्वासात्, अचिरभा-
विनि प्रियागमे इत्यर्थात् । ' प्रत्ययस्तु ख्यातिरन्ध्रविश्वासाधीनहेतुषु '
इति वैजयन्ती । आश्वसत्यः दुःखसागरादुन्मग्नमात्मानं मत्वा जी-
वितसंधारणमाशंसमानाः । किंनिमित्तो विश्वास इति चेत्तत्राह – क
इति । किंजातीयः, किंदेशीयः, किंरूपो वा । 'पथिकवनिताः'
इति प्रसङ्गात् अत पथिक इति लभ्यते । किंशब्दः क्षेपे ।
क्षेपे वितर्के किम्' इति वैजयन्ती । न कश्चिदपीत्यर्थः । संनद्धे बद्धो-
द्योगे। विरहविधुरामिति । संभावितशरीरापायामित्यर्थः । त्वयीति,
चन्द्रचन्दन मन्दानिलकुन्दमन्दारमाकन्दपल्लव मल्लिकोत्फुल्लजलजज-
लधिकल्लोलकोककोकनदकोकिलप्रमुखेषु कुसुमारवरूथिनीनासीर-
वीरेषु त्वमेवानतिक्रमणीय इति व्यज्यते; तथा चामरुक:
'मलयमरुतां व्राता याता विकासितमल्लिकापरिमलभरो यातो ग्रीष्म
त्वमुत्सहसे यदि । घन घटयितुं तं निःस्नेहं य एक निवर्तने प्रभवति
गवां किं नश्छिन्नं स एव धनंजयः' इति । तथा कश्चित् – 'ऋतु:
भिरिह किमन्यैरेक एवाहमीशो जगति विरहभाजां जीविताकर्षणाय ।
इति नियतमतानीन्मारवीरप्रतिज्ञां प्रकटविकटनादः प्रावृषेण्यः पयो-
M 2
 
प्रथमाश्वासः ।
 
'प्रश्ने
 
-