This page has been fully proofread once and needs a second look.

१४
 
मेघसंदेशे
 

चास्य सैव विश्वासकारिणी' इति, 'न हि भार्यासमं मित्रम्' इति

च तदविशायिनो बन्धोरभावात् भार्यैवात्र बन्धुरित्युच्यते । तथा

रघुवंशे-- 'वैदेहिबन्धोर्हृदयं विदद्वेरे' इति । ननु त्वत्प्रार्थितं मया

दुष्करं चेत्, सुकरमपि न वा क्रियते; तदानीं प्रणयभङ्गेन मानक्षति-

र्भवतो भाविनीत्याशङ्कय तन्नेत्याह – मोघा प्रयोजनवन्ध्या । 'वरं

क्लीचेबे मनाक्प्रिये' इत्यमरः । अधिगुणे अधिगतगुणे अभिजनादि-

गुणैरुत्कृष्टे । पुंसीति शेषः । अधमे तद्विपरीते । लब्धकामा काम्यते

इति कामः प्रयोजनम् 'यदुद्दिश्य प्रवर्तन्ते पुरुषास्तत्प्रयोजनम् '

इति लक्षितत्वात्, प्राप्तप्रयोजना । उभयत्र अपिशब्दोऽध्याह-

र्तव्य: । मोघत्वेऽपि श्लाघ्यत्वम् अमोघत्वेऽपि अश्लाघ्यत्वं च या-

च्ञाया:, पूर्वत्र याचितुः सतामगर्हणीयत्वात् उत्तरत्र अन्यथाभावा-

च्चेति ग्राह्यम् । अर्थान्तरन्यासोऽलंकारः ॥ ६ ॥
 

 
संतप्तानां त्वमसि शरणं तत्पयोद मिप्रियायाः

संदेशं मे हर धनपतिक्रोधविश्लेषितस्य ।

गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां
 

बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥ ७ ॥
 

 
अथ लोकोत्तरगुणोद्भावनेन तं प्ररोचयन् स्वप्रार्थनाविषयं प्रका-

शयति-- संतप्तानामिति । संतप्तानां कर्कशतरनिदाघार्ककिरणदा-

वसंपर्कनितान्ततान्तानाम् । अविशेषोक्त्या स्थावराणां जङ्गमानां च

भूतानामिति सिध्यति । त्वमिति । न तु तव कश्चित् प्रतिनिधिरिति

भावः । शरणमसि रक्षिता भवसि, न पुनः क्रियसे राजपुरुषादिवत्