This page has not been fully proofread.

१४
 
मेघसंदेशे
 
चास्य सैव विश्वासकारिणी' इति, 'न हि भार्यासमं मित्रम्' इति
च तदविशायिनो बन्धोरभावात् भार्यैवाल बन्धुरित्युच्यते । तथा
रघुवंशे– 'वैदेहिबन्धोर्हृदयं विदद्वे' इति । ननु त्वत्प्रार्थितं मया
दुष्करं चेत्, सुकरमपि न वा क्रियते; तदानीं प्रणयभङ्गेन मानक्षति-
र्भवतो भाविनीत्याशङ्कय तन्नेत्याह – मोघा प्रयोजनवन्ध्या । 'वरं
क्लीचे मनाप्रिये' इत्यमरः । अधिगुणे अधिगतगुणे अभिजनादि-
गुणैरुत्कृष्टे । पुंसीति शेषः । अधमे तद्विपरीते । लब्धकामा काम्यते
इति कामः प्रयोजनम् 'यदुद्दिश्य प्रवर्तन्ते पुरुषास्तत्प्रयोजनम् '
इति लक्षितत्वात्, प्राप्तप्रयोजना । उभयत्र अपिशब्दोऽध्याह-
र्तव्य: । मोघत्वेऽपि श्लाघ्यत्वम् अमोघत्वेऽपि अश्लाघ्यत्वं च या-
च्ञाया:, पूर्वत्र याचितुः सतामगईणीयत्वात् उत्तरत्र अन्यथाभावा-
च्चेति ग्राह्यम् । अर्थान्तरन्यासोऽलंकारः ॥ ६ ॥
 
संतप्तानां त्वमसि शरणं तत्पयोद मियायाः
संदेशं मे हर धनपतिक्रोधविश्लेषितस्य ।
गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां
 
बाह्योद्यानस्थितहरशिरश्चन्द्रिकातहर्म्या ॥ ७ ॥
 
अथ लोकोत्तरगुणोद्भावनेन तं प्ररोचयन् स्वप्रार्थनाविषयं प्रका-
शयति – संतप्तानामिति । संतप्तानां कर्कशतरनिदाघार्ककिरणदा-
वसंपर्कनितान्ततान्तानाम् । अविशेषोक्त्या स्थावराणां जङ्गमानां च
भूतानामिति सिध्यति । त्वमिति । न तु तव कश्चित् प्रतिनिधिरिति
भावः । शरणमसि रक्षिता भवसि, न पुनः क्रियसे राजपुरुषादिवत्