This page has been fully proofread once and needs a second look.

प्रथमाश्वासः ।
 

जातं वंशे भुवनविदिते पुष्कलावर्तकानां

जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः ।

तेनार्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतोऽहं
 

याच्या मोघा वर्मधिगुणे नामे लब्धकामा ॥ ६ ॥
 
१३
 

 
अथ तं गुणकीर्तनेनाभिमुखीकृत्य प्रोत्साहयन्, त्वाभिमतमुपक्षि-

पति -- जातं वंश इत्यादि । पुष्कलावर्तका नाम प्रलयसमयाधि-

कारिणो महान्तः पयोधरविशेषाः । मन्वादीनां कूटस्थानां पुत्रपौ-

त्रादिरूपेण वंशस्थापनदर्शनादेतेषां च प्राधान्यादस्य मेघस्य सामा-

न्याश्च तत्कर्तृत्वमभ्युपेत्यैवमुक्तिः । भुवनविदित इति । यतस्ते

सुरकरिकरपीवरप्रचण्डधारासारसंप्लावितजगदण्डपिण्डा देवकार्याधि-

कारिणः, ततस्तेषां वंशं जगति को न जानातीत्यर्थः । जानामि न

तु यस्य कस्यचिद्वचनाद्विश्वसिमि, अहमेवैतत्सर्वे साध्ववगच्छामी
-
त्यर्थः । प्रकृतिपुरुषं राज्याङ्गत्वेनान्तर्भूतं पुरुषम् अधिकारिपुरुष-

मिति यावत् । कामरूपं कामतो रूपं यस्य तम्, अणिमाद्यष्टसिद्धि-

संपन्नमित्यर्थः । एतच्च – 'पुष्पमेधीकृतात्मा' इत्यादीनामुपरि वक्ष्य-

माणानां निर्वाहकतयोपात्तम् । मघोनः प्रकृतिपुरुषमिति, त्रिभुवन-

पतेर्मद्देहेन्द्रस्यापि त्वदधीना राज्यस्थितिः वृष्ट्यायत्तत्वात् जगत्स्थितेः,

द्दोहो धन्यस्त्वमिति द्योत्यते । तेन यत एवं जानामि तस्मात् । अर्थि-

त्वमिति सामान्येनोक्तिरभ्युपगमे विषयविशेषप्रकाशनार्थम् । विधि-

वशात् दैवबलादिति अप्रतिकर्तव्यतां द्योतयति । दूरबन्धुः दूरे बन्धु-

र्यस्य सः । 'धर्मार्थकामकार्येषु भार्या पुंसः सहायिनी। विदेशगमने
 
-