This page has not been fully proofread.

प्रथमाश्वासः ।
 
जातं वंशे भुवनविदिते पुष्कलावर्तकानां
जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः ।
तेनार्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतोऽहं
 
याच्या मोघा वर्मधिगुणे नाघमे लब्धकामा ॥ ६ ॥
 
१३
 
अथ तं गुणकीर्तनेनाभिमुखीकृत्य प्रोत्साहयन्, त्वाभिमतमुपक्षि-
पति -- जातं वंश इत्यादि । पुष्कलावर्तका नाम प्रलयसमयाधि-
कारिणो महान्तः पयोधरविशेषाः । मन्वादीनां कूटस्थानां पुत्रपौ-
त्रादिरूपेण वंशस्थापनदर्शनादेतेषां च प्राधान्यादस्य मेघस्य सामा-
न्याश्च तत्कर्तृत्वमभ्युपेत्यैवमुक्तिः । भुवनविदित इति । यतस्ते
सुरकरिकरपीवरप्रचण्डधारासारसंप्लवितजगदण्डपिण्डा देवकार्याधि-
कारिणः, ततस्तेषां वंशं जगति को न जानातीत्यर्थः । जानामि न
तु यस्य कस्यचिद्वचनाद्विश्वसिमि, अहमेवैतत्सर्वे साध्ववगच्छामी
त्यर्थः । प्रकृतिपुरुषं राज्याङ्गत्वेनान्तर्भूतं पुरुषम् अधिकारिपुरुष-
मिति यावत् । कामरूपं कामतो रूपं यस्य तम्, अणिमाद्यष्टसिद्धि-
संपन्नमित्यर्थः । एतच्च – 'पुष्पमेधीकृतात्मा' इत्यादीनामुपरि वक्ष्य-
माणानां निर्वाहकतयोपात्तम् । मघोनः प्रकृतिपुरुषमिति, त्रिभुवन-
पतेर्मद्देन्द्रस्यापि त्वदधीना राज्यस्थितिः वृष्ट्यायत्तत्वात् जगत्स्थितेः,
अद्दो धन्यस्त्वमिति द्योत्यते । तेन यत एवं जानामि तस्मात् । अर्थि-
त्वमिति सामान्येनोक्तिरभ्युपगमे विषयविशेषप्रकाशनार्थम् । विधि-
वशात् दैवबलादिति अप्रतिकर्तव्यतां द्योतयति । दूरबन्धुः दूरे बन्धु-
र्यस्य सः । 'धर्मार्थकामकार्येषु भार्या पुंसः सहायिनी। विदेशगमने
 
-