This page has been fully proofread once and needs a second look.

मेघसंदेशे
 

क्षरक्षोगन्धर्वकिन्नराः । पिशाचो गुह्यकः सिद्धो भूतोऽमी देव-

योनयः' इत्यभिधानशास्त्रे यक्षगुह्यकयोर्भेदः प्रदर्शितः, तथाप्यवा-

न्तरभेदापेक्षया स मन्तव्यः । कवीनां तु न तादृशभेदेष्वास्था ।

तथा श्रीविष्णुपुराणे –'संकर्षणं तु स्कन्धेन शीघ्रमुत्क्षिप्य दानवः ।

नभस्तः प्रजगामैव सचन्द्र इव वारिदः ॥ संस्तूयमानो गोपैस्तु रामो

दैत्ये निपातिते । प्रलम्बे सह कृष्णेन पुनर्गोकुलमाययौः" इत्यवा-

न्तरभिदानादरेणैकस्यैव दैत्यदानवत्वोक्तिः । ययाचे सप्रार्थनं

बभाषे । न चासौ दोषः ; हि यस्मात् मन्मथोन्माथोन्मत्त-

चित्ताः विशेषवित्सु सख्यादिषु विवेकरहितेषु वृक्षादिषु च विषये

प्रियाप्रवृत्तिकथनतत्प्रदर्शनतत्समीपगमनादियाञ्चया दीनवृत्तयः ।

हि शब्दः प्रसिद्धौ वा तथा च रामायणादिषु– 'अशोक शोका-

पनुद शोकोपहतचेतसम् । त्वन्नामानं कुरु क्षिप्रं प्रियासंदर्शनेन

माम् ॥' ' हंस प्रयच्छ मेंमे कान्तां गतिस्तस्यास्त्वया हृता। विभा
-
वितैकदेशेन देयं यदभियुज्यते ॥' 'रक्ताशोक कृशोदरी क्वनु

गता त्यक्त्वानुरक्तं जनं नो दृष्टेति मुधैव चालयसि किं वाताभिभूतं

शिरः । उत्कण्ठाघटमानषट्पदघटासंघट्टदुष्टच्छदस्तत्पादाहृतिमन्त-

रेण भवतः पुष्पोद्गमोऽयं कुतः ॥' इत्याद्युक्तीनाममन्दरसनिष्य-

न्दसुन्दरत्वात्, कामावस्थाविशेषत्वेनाप्युन्मादस्य कामसूत्रकारैः

प्रतिपादितत्वाच्च 'नयनप्रीतिः प्रथमं चित्तासङ्गस्ततोऽथ सं.
-
कल्पः। निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः । उन्मादो मूर्च्छा

मृतिरित्येताः स्मरदशा दशैव स्युः इति । अत्रार्थान्तरन्यासो-

ऽलंकारः ॥ ५ ॥
 
9
 
१२