This page has not been fully proofread.

मेघसंदेशे
 
क्षरक्षोगन्धर्वकिन्नराः । पिशाचो गुह्यकः सिद्धो भूतोऽमी देव-
योनयः' इत्यभिधानशास्त्रे यक्षगुह्यकयोर्भेदः प्रदर्शितः, तथाप्यवा-
न्तरभेदापेक्षया स मन्तव्यः । कवीनां तु न तादृशभेदेष्वास्था ।
तथा श्रीविष्णुपुराणे –'संकर्षणं तु स्कन्धेन शीघ्रमुत्क्षिप्य दानवः ।
नभस्तः प्रजगामैव सचन्द्र इव वारिदः ॥ संस्तूयमानो गोपैस्तु रामो
दैत्ये निपातिते । प्रलम्बे सह कृष्णेन पुनर्गोकुलमाययौः" इत्यवा-
न्तरभिदानादरेणैकस्यैव दैत्यदानवत्वोक्तिः । ययाचे सप्रार्थनं
बभाषे । न चासौ दोषः ; हि यस्मात् मन्मथोन्माथोन्मत्त-
चित्ताः विशेषवित्सु सख्यादिषु विवेकरहितेषु वृक्षादिषु च विषये
प्रियाप्रवृत्तिकथनतत्प्रदर्शनतत्समीपगमनादियाञ्चया दीनवृत्तयः ।
हिशब्दः प्रसिद्धौ वा तथा च रामायणादिषु– 'अशोक शोका-
पनुद शोकोपहतचेतसम् । त्वन्नामानं कुरु क्षिप्रं प्रियासंदर्शनेन
माम् ॥' ' हंस प्रयच्छ में कान्तां गतिस्तस्यास्त्वया हता। विभा
वितैकदेशेन देयं यदभियुज्यते ॥' 'रक्ताशोक कृशोदरी क्वनु
गता त्यक्त्वानुरक्तं जनं नो दृष्टेति मुधैव चालयसि किं वाताभिभूतं
शिरः । उत्कण्ठाघटमानषट्पदघटासंघट्टदुष्टच्छदस्तत्पादाहृतिमन्त-
रेण भवतः पुष्पोद्गमोऽयं कुतः ॥' इत्यायुक्तीनाममन्दरसनिष्य-
न्दसुन्दरत्वात्, कामावस्थाविशेषत्वेनाप्युन्मादस्य कामसूत्रकारैः
प्रतिपादितत्वाच्च 'नयनप्रीतिः प्रथमं चित्तासङ्गस्ततोऽथ सं.
कल्पः। निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः । उन्मादो मूर्च्छा
मृतिरित्येताः स्मरदशा दशैव स्युः इति । अत्रार्थान्तरन्यासो-
ऽलंकारः ॥ ५ ॥
 
9
 
१२