This page has been fully proofread once and needs a second look.

नादिषु सोत्कण्ठं भवति; घनस्तनितजनितसंत्रासचपलविपुलविलोचने
सरभसोच्चण्डकण्ठग्रहानुरागिणि जने दयितायामित्यर्थात् श्रवणदर्श-
नागोचरस्थानवर्तिनि सति तद्विरहिणः पुंसः कथा कथं कथ्यतामिति
भावः । एतेन लोकवृत्तान्तेनास्यापि महापुरुषस्य धैर्यच्युतिरुपपन्नेति
समर्थ्यते । अत्रार्थान्तरन्यासोऽलंकारः ॥ ३ ॥
 
प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी
जीमूतेन स्वकुशलमयीं हारयिष्यन्प्रवृत्तिम् ।
स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै
प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ ४ ॥
 
अथ प्रयत्नावलम्बितधैर्यस्तम्भस्तम्भितात्मनस्तद्विषयां प्रतिपत्ति-
माह-- प्रत्यासन्ने नभसीति । परिमेयदिवसान्तरितागमे श्रावणे
वर्षः प्रथमे मासि प्रियतमाप्राणितप्रयोजनं स्वाव्यापत्तिरूपं वृत्ता-
न्तं प्रार्थनाप्रतिपादितदूतीभावेन जलधरेण नाययिष्यन्, तत्सकाशं प्र-
तीत्यर्थात् । अत्र कुशलशब्देन प्रियतमापुनःसमागमोत्सवहेतुभूतमेता-
वतो मासान् प्राणसंधारणमेवोच्यते, 'क्षणमप्यवतिष्ठते श्वसन्यदि जन्तु-
र्ननु लाभवान्' इत्युक्तवत् ; उपरि च 'अव्यापन्नः कुशलम्'
इत्यव्यापत्तिमात्रस्य प्रतिपादनात् । सः यक्षः तत्कालोत्फुल्लैः गिरि-
मल्लिकापुष्पैः कृतपूजाय जलमुचे विशिष्टदूतोपलम्भहृष्टः प्रीतौ सत्यां
तद्विषयभूतं जनं प्रति प्रथमतः प्रयोज्यम् 'सखे भवता सुखेनागतम्'
इति वा, 'भवतः शोभनमागमनम्' इति वा स्वागतवचनं प्रयु-
युजे । 'प्रत्यग्रं नूतनम् नवम्' ‘कुटजो गिरिमल्लिका' इत्यमरः ।