This page has been fully proofread once and needs a second look.

१०
 
मेघसंदेशे :
 
नादिपुषु सोत्कण्ठं भवति ; घनस्तनितजनितसंत्रासचपल विपुलविलोचने

सरभसोच्चण्डकण्ठग्रहानुरागिणि जने दयितायामित्यर्थात् श्रवणदर्श-

नागोचरस्थानवर्तिनि सति तद्विरहिणः पुंसः कथा कथं कथ्यतामिति
 

भावः । एतेन लोकवृत्तान्तेनास्यापि महापुरुषस्य धैर्यच्युतिरुपपन्नेति
M
 

समर्थ्यते । अत्रार्थान्तरन्यासोऽलंकारः ॥ ३ ॥
 
"
 

 
प्रत्यासन्ने नभसि दयिताजीविता लम्बनार्थी

जीमूतेन स्वकुशलमयीं हारयिष्यन्प्रवृत्तिम् ।

स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै
 

प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ ४ ॥

 
अथ प्रयत्नावलम्बितधैर्यस्तम्भस्तम्भितात्मनस्तद्विषयां प्रतिपत्ति-

माह -- प्रत्यासन्ने नभसीति । परिमेयदिवसान्तरितागमे श्रावणे

वर्षः प्रथमे मासि प्रियतमाप्राणितप्रयोजनं स्वाव्यापत्तिरूपं वृत्ता-

न्तं प्रार्थनाप्रतिपादितदूतीभावेन जलधरेण नाययिष्यन्, तत्सकाशं प्र-

तीत्यर्थात् । अत्र कुशलशब्देन प्रियतमापुनःसमागमोत्सवहेतुभूतमेता-

वतो मासान् प्राणसंधारणमेवोच्यते, 'क्षणमप्यवतिष्ठते श्वंसन्यदि जन्तु-

र्ननु लाभवान्' इत्युक्तवत् ; उपरि च 'अव्यापन्नः कुशलम्'

इत्यव्यापत्तिमात्रस्य प्रतिपादनात् । सः यक्षः तत्कालोत्फुल्लैः गिरि-

मल्लिकापुष्पैः कृतपूजाय जलमुचे विशिष्टदूतोपलम्भद्दहृष्टः प्रीतौ सत्यां

तद्विषयभूतं जनं प्रति प्रथमतः प्रयोज्यम् 'सखे भवता सुखेनागतम्'

इति वा, 'भवतः. शोभनमागमनम्' इति वा स्वागतवचनं प्रयु-

युजे । 'प्रत्यग्रं नूतनम् नवम्' 'कुटजो गिरिमल्लिका' इत्यमरः ।