This page has been fully proofread once and needs a second look.

प्रथमाश्वासः ।
 
"
 

तिर्यक्प्रहरन्तं द्विपेन्द्रमिव लोचनहरम् । 'वप्रः पितरि ना न स्त्री

क्षेत्रे रोधसि सानुनि' इति वैजयन्ती । ' तिर्यग्दन्तप्रहारस्तु गजः

परिणतो मतः' इत्यमरः । श्यामलरुचो गजेन्द्रस्योपमानत्वात् सलि-

लगर्भो नीलमेघ इत्यवसीयते । स कामी मेघं ददर्शेति, अहो गण्ड-

स्योपरि पिटकोन्द्भेद इति भावः । वप्रक्रीडापरिणतगजप्रेक्षणीयमित्यत्र

उपमालंकारः । अथवा तादृशानां गजानां तत्र विद्यमानत्वात् तेषां

मध्ये किमन्यतमोऽयमिति दृश्यमानमित्यर्थः । तदा संदेहालंकारः,

भ्रान्तिमान्वा ॥ २॥
 

 
तस्य स्थित्वा कथमपि पुरः केतकाधानहेतो-

रन्तर्वाष्पश्चिरमनुचरो राजराजस्य दथ्ध्यौ ।

मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः

कण्ठा श्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ ३ ॥

 
मेघदर्शनविभावितोद्दीपितमन्मथस्यं प्रवृत्तिमाह - त-- तस्य स्थित्वे-

ति । कथमपि तरुलताद्यवलम्बन प्रयासेनेत्यर्थः । केतकाधानहेतोः

परिमलबहुलकेतकीकुसुमनिकरोत्पादननिमित्तभूतस्य । अनेन कुसु-

मास्त्रसाहाय्यसंनाहो ध्वन्यते । अन्तर्वाष्पः प्रयत्नसंस्तम्मिभितान्तर्गताश्रु-

वेगनिरुद्धकण्ठः। राजराजस्यानुचरः वैश्रवणस्य भृत्यः । अनेन

धिक् पारतन्त्र्यस्य दौरात्म्यमिति प्रतीयते । 'मनुष्यधर्मा धनदो राज-

राजो धनाधिपः' इत्यमरः । दथ्ध्यौ ' प्रियामिति शेषः । ध्यानं नाम

प्रत्ययान्तरानन्तरिताभिमतार्थप्रत्ययसंतानकरणम् । मेघालोक इति ।

नवजलरदर्शने अभिमतविषय संनिधान निर्वृतस्यापि मनः क्षणमदर्श-