This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
मुखस्य तद्रेणुसमानगन्धिनः' इति च शास्त्रे काव्ये चैवं प्रयोगदर्श -

नात्, 'सर्वनाम्नानुसंधिर्वृत्तिच्छन्नस्य' इति लक्षणाच्च । कतिचिदिति ।

अर्थादष्टौ, 'मासानन्यान् गमय चतुरः' इति वक्ष्यमाणत्वात् ;

मुखतोऽनुक्तिरनुपयोगात् । अबलाविप्रयुक्तः कामीति । कामो रागः

तद्वान् रागी सन् रागविषयवियुक्तो यः, तस्य दुःखासिका कथं कथ्यता-

मिति भावः। अबलाशब्देन स्वावस्थातोऽप्यस्य शिरीषमृद्व्यास्तस्याः

प्रलयार्ककर्कशे बिविरहदुःखे किमापतिष्यतीति चिन्तया संतापः संता-

यत इति करुणरसो व्यज्यते । मासान्नीत्वा न तु मासेषु गतेषु,

निर्विनोदतया दीर्घीभूतानिवानपगच्छतो मासान् विचित्रैरुपायैः

कथं कथमपि गमयित्वेत्यर्थः । कनकवलयभ्रंशरिक्तप्रकोष्ठः वेषवि-

रचनाविद्वेषेण भूषणान्तरेप्ष्वपाकृतेषु कनकवलयं मङ्गलाथै बार्थे वामप्रको-

ष्
ठनिविष्टमवशिष्टम्, तस्यापि कार्यातिरेकजनितेन विगलनेन शून्यभूतं

कैवल्यमात्रभूषणं प्रकोष्ठं यस्य सः । कनकवलयस्यैकस्य धारणं विरह-

चिह्नमिति केचित् । तथा आकृशाकुन्तले -- ‘प्रत्याख्यातविशेषमण्डन-

विधिर्वामप्रकोष्ठार्पितं बिभ्रत्काञ्चनमेकमेव वलयं श्वासापरक्ताधरः

इति, 'अनतिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनात्कनकवलयं स्रस्तं

स्र
स्तं मया प्रतिसार्यते इति च । आषाढस्य ग्रीष्मर्तुद्वितीय-

मासस्य शुचेः। प्रथमदिवस इति, वर्षासमयसंनिकर्षजनितहर्षो-

त्कर्षस्य स्तनयित्नोः संनाहातिशयं सूचयति । आश्लिष्टसानुम्

आलिङ्गिततटम् । 'सानु: प्रस्थं तटं भृगुः
?
इत्यमरः । अत्र सु.
-
हृदालिङ्गनसमाधिः । सलिलमरखेदेन गिरितटे निषद्य विश्राम्यन्त
-
मित्यर्थः । वप्रकीडापरिणतगजप्रेक्षणीयं गिरितटविहारे दन्ताभ्यां
 
·}
 
>
 
6
 
9