This page has been fully proofread once and needs a second look.

प्रथमाश्वासः ।
 
"
 
J
 
6
 

रनर्थाय । 'विनोदमात्र मेवेदमिति यस्यावधारणा विटवृत्तं स जानाति'

इत्युक्तरीत्या वर्तमानो न क्वचिदवसीदतीति । अतोऽपरस्यार्थस्य

शब्दताडितत्वेनाप्रकाशमानत्वादशान्ब्दतैव । अतिप्रसङ्गादेतावतैव सं-

तोष्टव्यम्। कवेर्यक्षवृत्तान्ते सीताराघववृत्तान्तसमाधिरस्तीति केचित्,

तन्न सहृदयहृदय़संवादाय; प्रयोजनाभावात् कविनैव ' जनक-

तनयास्नान– ' इति 'रघुपतिपदैः' इति चात्यन्ततटस्थतया प्रति-

पादितत्वात् उपरि च इत्याख्याते पवनतनयं मैथिलीवोन्मुखी

सा इत्यत्र उपमानतया प्रतिपादयिष्यमाणत्वात्, उपमेयस्यार्थ
-
स्यार्थभेदः कण्ठोक्त इति । कान्ताविरहगुरुणेत्यत्र रूपकमलंकारः ।

अस्तंगमितमहिमेत्यत्र रूपकमेकदेशविवर्ति; अथवा सादृश्याल्लक्षणा-

रूपा वक्रोक्तिः । जनकतनयेत्यत्र स्निग्धेत्यत्र च उदात्तमलंकारः ।

शब्दशक्त्याह्लादकत्वरूपं माधुर्ये झटिति विवक्षितार्थसमर्पकत्वात्मा

प्रसादश्व गुणौ । अनुप्रासः स्वभावोक्तिः । भाविकादयश्चालंकारा

महाकविवचसि व्याप्तत्वात्तत्र तत् नोद्भावयिष्यन्ते ॥ १ ॥
 
"
 
9
 

 
तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी

नीखात्वा मासान्कनकवलयभ्रंशरिक्तप्रकोष्ठः ।

आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानं
नुं
वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २ ॥
 

 
अथ प्रमेयसंघटनाय बीजभूतमर्थे प्रस्तौति-- तस्मिन्नद्राविति ।

तच्छब्देन प्रकृत: समासे गुणीभूतो रामगिरिः परामृश्यते, 'अथ

शब्दानुशासनं केषां शब्दानाम्' इति, 'तवास्य नीलोत्पलचारुचक्षुषो