2023-02-17 12:54:29 by ambuda-bot
This page has not been fully proofread.
प्रथमाश्वासः ।
"
J
6
रनर्थाय । 'विनोदमात्र मेवेदमिति यस्यावधारणा विटवृत्तं स जानाति'
इत्युक्तरीत्या वर्तमानो न क्वचिदवसीदतीति । अतोऽपरस्यार्थस्य
शब्दताडितत्वेनाप्रकाशमानत्वादशान्दतैव । अतिप्रसङ्गादेतावतैव सं-
तोष्टव्यम्। कवेर्यक्षवृत्तान्ते सीताराघववृत्तान्तसमाधिरस्तीति केचित्,
तन्न सहृदयहृदय़संवादाय; प्रयोजनाभावात् कविनैव ' जनक-
तनयास्नान– ' इति 'रघुपतिपदैः' इति चात्यन्ततटस्थतया प्रति-
पादितत्वात् उपरि च इत्याख्याते पवनतनयं मैथिलीवोन्मुखी
सा इत्यत्र उपमानतया प्रतिपादयिष्यमाणत्वात्, उपमेयस्यार्थ
स्यार्थभेदः कण्ठोक्त इति । कान्ताविरहगुरुणेत्यत्र रूपकमलंकारः ।
अस्तंगमितमहिमेत्यत्र रूपकमेकदेशविवर्ति; अथवा सादृश्यालक्षणा-
रूपा वक्रोक्तिः । जनकतनयेत्यत्र स्निग्धेत्यत्र च उदात्तमलंकारः ।
शब्दशक्त्याह्लादकत्वरूपं माधुर्ये झटिति विवक्षितार्थसमर्पकत्वात्मा
प्रसादश्व गुणौ । अनुप्रासः स्वभावोक्तिः । भाविकादयश्चालंकारा
महाकविवचसि व्याप्तत्वात्तत्र तत्व नोद्भावयिष्यन्ते ॥ १ ॥
"
9
तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी
नीखा मासान्कनकवलयभ्रंशरिक्तप्रकोष्ठः ।
आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानं
वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २ ॥
अथ प्रमेयसंघटनाय बीजभूतमर्थ प्रस्तौति – तस्मिन्नद्राविति ।
तच्छब्देन प्रकृत: समासे गुणीभूतो रामगिरिः परामृश्यते, 'अथ
शब्दानुशासनं केषां शब्दानाम्' इति, 'तवास्य नीलोत्पलचारुचक्षुषो