2023-02-17 18:01:09 by manu_css
This page has been fully proofread once and needs a second look.
/
इत्यवसीयते, कुपितदशा
नाम फलतः प्रियाविरहरूपात् । भर्तुः स्वामिनः, अविशेषनिर्देशे-
ऽपि वैश्रवणस्य यक्षेश्वरत्वप्रसिद्धेः यक्षं प्रति तस्यैव भर्तृत्वोपपत्तिः ।
उपरि कविरेवैतत्स्फुटीकरिष्यति-- 'अनुचरो राजराजस्य' इति ।
भर्तुरिति, निग्रहान्तरेऽपि शक्तस्य एतावता क्रोधनिवृत्तिर्महालाभः,
अप्रतिविधेयत्वादिति द्योत्यते । यक्ष इति । जात्यैव यः सुखो-
चितो निरतिशयैश्वर्यशाली निरुपमरूपादिगुणसंपन्नश्च, अस्य
तस्यैवेदृशी दशा दैववशादुपगतेति भावः । तथा कुमारसंभवे-
'यक्षकिंपुरुषाः पौराः' इति, यत्र यक्षकिंपुरुषाः पौराः, तत्पुरं
कथं वर्ण्यत इत्यनेन यक्षाणां लोकोत्तरगुणशालित्वं सूचितम् । जन-
कतनयास्नानपुण्
अयोनिजत्वमत एव दिव्यत्वं चेत्यादिदिव्यसर्वगुणसंपत्सूचिता ।
पितुर्दशरथस्य शासनमनुपालयतो भर्तुः शुश्रूषया तत्र कंचित्कालमु-
त्रि
षितायाः पतिदेवताकुलमौलिमणेर्देव्याः सीताया नित्यनैमित्तिकस्ना-
नविधेर्हेतोः पावनं जलं येषु । स्निग्धच्छायातरुषु सीतास्वहस्तोम्भि-
तकुम्भाम्भःसं
ततस्तत्करप्रभावादविरतकिसलयकुसुमफलभरभरितविकटविटपास्तत
एव स्निग्धाः लावण्यशालिनः छायाप्रचुरास्तरवो येषु । छायातरव
इति शाकपार्थिवादित्वात्समासः । रघुवंशे च-- 'छायावृक्ष
वाध्वगाः
देकत्र न संभवति
.