This page has not been fully proofread.

प्रथमाश्वासः ।
 
/
 
समासः । एतेन प्रणिपातप्रसादितेन प्रभुणा एकवर्षावधिः शापः कृत
इत्यवसीयते, कुपितदशाबामवधिविधानानुपपत्तेः । शापस्य भोग्यवं
नाम फलतः प्रियाविरहरूपात् । भर्तुः स्वामिनः, अविशेषनिर्देशे-
ऽपि वैश्रवणस्य यक्षेश्वरत्वप्रसिद्धेः यक्षं प्रति तस्यैव भर्तृत्वोपपत्तिः ।
उपरि कविरेवैतत्स्फुटीकरिष्यति- 'अनुचरो राजराजस्य' इति ।
भर्तुरिति, निग्रहान्तरेऽपि शक्तस्य एतावता क्रोधनिवृत्तिर्महालाभः,
अप्रतिविधेयत्वादिति द्योत्यते । यक्ष इति । जात्यैव यः सुखो-
चितो निरतिशयैश्वर्यशाली निरुपमरूपादिगुणसंपन्नश्च, अस्य इन्त
तस्यैवेदृशी दशा दैववशादुपगतेति भावः । तथा कुमारसंभवे-
'यक्षकिंपुरुषाः पौराः' इति, यत्र यक्षकिंपुरुषाः पौराः, तत्पुरं
कथं वर्ण्यत इत्यनेन यक्षाणां लोकोत्तरगुणशालित्वं सूचितम् । जन-
कतनयास्नानपुण्यौदकेषु जनकतनयेत्यभिजनादिसर्वगुणसंपत् सूचिता;
अयोनिजत्वमत एव दिव्यत्वं चेत्यादिदिव्यसर्वगुणसंपत्सूचिता ।
पितुर्दशरथस्य शासनमनुपालयतो भर्तुः शुश्रूषया तत्र कंचित्कालमु-
त्रितायाः पतिदेवताकुलमौलिमणेर्देव्याः सीताया नित्यनैमित्तिकस्ना-
नविधेर्हेतोः पावनं जलं येषु । स्निग्धच्छायातरुषु सीतास्वहस्तोम्भि-
तकुम्भाम्भःसंमृतसमृद्धिकाः ' प्रभावस्तिमितच्छायम्' इतिवत्
ततस्तत्करप्रभावादविरतकिसलयकुसुमफलभरभरितविकटविटपास्तत
एव स्निग्धाः लावण्यशालिनः छायाप्रचुरास्तरवो येषु । छायातरव
इति शाकपार्थिवादित्वात्समासः । रघुवंशे च 'छायावृक्षमि-
वाध्वगाः ' इति । विशेषणाभ्याम् 'पापहरत्वं मनोहरत्वं च युगप-
देकत्र न संभवति ; तदुभयमत्र समुदितम्; अतोऽत्रैव वसामः
 
.