This page has been fully proofread once and needs a second look.

प्रथमाश्वासः
 

 
मानाधिकृताभ्यां जीवेश्वरैक्यमशेषपुरुषार्थमौलिभूतमनुसंदधानः, प्रथ-

मपद्येन वस्तुनिर्देशं करोति
 
--
 
कश्चित्कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः

शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः ।

यक्षश्चक्रे जनकतनयास्त्रान नानपुण्योदकेषु

स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १ ॥

 
कश्चिदित्यादि । वस्तु चात्रेतिवृत्तनायकः, तस्य प्रतिपादनं

निर्देशः, यथा शिशुपालवधे-- 'हरिर्मुनिनिं ददर्श' इति; किरा-

तार्जुनीये च-- 'वनेचरो युधिष्ठिरं समाययौ' इति ; यथा

चास्यैव कवेः कुमारसंभवे-- 'नगाधिराजोऽस्ति' इत्युपनायकस्य ।

कश्चिदिति सामान्यनिर्देशो रससरेम्भितया कवेस्तदनुपयु क्तयक्षविशे-

षप्रतिपादने तात्पर्याभावं ध्वनयति; यथा रघुवंशे -- 'मतङ्गशापादव-

लेपमूलात्' इत्यवलेपप्रकारविशेषानुक्तिः । कान्ताविरहगुरुणा प्रिय-
तमाबि

तमावि
योगोपदेशाचार्येण, स्वप्नेऽप्यविदितविरहदुःखस्यास्य, 'इंदृशो

दयितावियोगः ' इति शापेनैवोपदिष्टत्वात् स गुरुरित्युच्यते अशा
तशा
ज्ञा-
तज्ञा
पकत्वसामान्येन, 'स मारुतसुतानीतमहौषधिहृतव्यथः । लङ्का
-
स्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः' इतिवत् । कान्ताविरहतो गु-

रुणा अलघुना दुर्भरेणेति केचित् । अनेनैव कान्तातिसक्तिमूलत्वमपि

प्रमादस्यावगम्यते, अन्यथा तद्विरहविषयस्यानुपपत्तेः शापस्य । स्वा-

धिकारप्रमत्तः स्वेन आत्मना अङ्गीकृते अधिकारे कार्यधुरायां निधि-

पालनादौ । अत्रापि विशेषानभिधानं पूर्ववद्रसानुपयोगात् । प्रमत्तः