This page has not been fully proofread.

प्रथमाश्वासः ।
 
मानाधिकृताभ्यां जीवेश्वरैक्यमशेषपुरुषार्थमौलिभूतमनुसंदधानः, प्रथ-
मपद्येन वस्तुनिर्देशं करोति
 
कश्चित्कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः
शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः ।
यक्षश्चक्रे जनकतनयास्त्रान पुण्योदकेषु
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १ ॥
कश्चिदित्यादि । वस्तु चात्रेतिवृत्तनायकः तस्य प्रतिपादनं
निर्देशः, यथा शिशुपालवधे– 'हरिर्मुनि ददर्श' इति; किरा-
तार्जुनीये च– 'वनेचरो युधिष्ठिरं समाययौ' इति ; यथा
चास्यैव कवेः कुमारसंभवे — 'नगाधिराजोऽस्ति' इत्युपनायकस्य ।
कश्चिदिति सामान्यनिर्देशो रससरम्भितया कवेस्तदनुपयु तयक्षविशे-
षप्रतिपादने तात्पर्याभावं ध्वनयति; यथा रघुवंशे - 'मतङ्गशापादव-
लेपमूलात्' इत्यवलेपप्रकारविशेषानुक्तिः । कान्ताविरहगुरुणा प्रिय-
तमाबियोगोपदेशाचार्येण, स्वप्नेऽप्यविदितविरहदुःखस्यास्य, 'इंदृशो
दयितावियोगः ' इति शापेनैवोपदिष्टत्वात् स गुरुरित्युच्यते अशा
तशापकत्वसामान्येन, 'स मारुतसुतानीतमहौषधिहृतव्यथः । लङ्का
स्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः' इतिवत् । कान्ताविरहतो गु-
रुणा अलघुना दुर्भरेणेति केचित् । अनेनैव कान्तातिसक्तिमूलत्वमपि
प्रमादस्यावगम्यते, अन्यथा तद्विरहविषयस्यानुपपत्तेः शापस्य । स्वा-
धिकारप्रमत्तः स्वेन आत्मना अङ्गीकृते अधिकारे कार्यधुरायां निधि-
पालनादौ । अत्रापि विशेषानभिधानं पूर्ववद्रसानुपयोगात् । प्रमत्तः