This page has been fully proofread once and needs a second look.

मेघसंदेशे
 

पूर्णज्योतिश्चरणकरुणाजाद्वह्नवीपूतचेताः

स्फीतासूयाकलुषितधियो दुर्जनाद्भीतभीतः ।

मेघस्याहं स्वमतिसदृशं व्याक्रियायां पतिष्ये

सौजन्येन्दोरुदयगिरयः सूरयस्तत्क्षमन्ताम् ॥ ५ ॥

 
प्रतिपदमखिलार्थव्याकृतौ कः कृती स्या-

स्सुमतिभिरनुभाव्ये कालिदासस्य काम्ये 1 H
 

प्रभवति परिमातुं को विशेषानशेषा-

न्वपुषि सुकृतिदृश्ये विश्वरूपस्य विष्णोः ॥ ६ ॥

 
निधौ रसानां निलये गुणाना-

मलंकृतीनामुद्धावदोषे ।
 

काव्ये कवीन्द्रस्य नवार्थतीर्थे
 

या व्याचिकीर्षा मम तां नतोऽस्मि ॥
 
७ ॥
 
मेघस्य विष्त्रप्वग्रसर्षुकस्य
 

व्याख्या ममेयं विशदप्रकाशा ।

विद्योतयन्ती स्फुटमर्थजातं
 

विद्युल्लतेवास्तु विभूषणाय ॥ ८ ॥
 

 
अथ सकलविबुधमहितयशाः कविकुलपरमेश्वरो मेघसंदेशसंशिज्ञितं

रसिकजनरसायनं प्रबन्धमारभमाणः, तस्य निष्प्रत्यूहपरिसमाप्त्यादि-

निखिलसमीद्दिहितसिद्धये विश्वमङ्गलनिदानमवनिदेवताकं मगणमादौ

प्रयुञ्जानः, 'कं ब्रह्म खं ब्रह्म' इति, 'वह्नीन्द्रोपेन्द्रमित्रे कः' इति,

'काश्चित्तात्मार्कधीधातृवाताः' इत्यादिवचनैः परब्रह्मवाचिनानः कका-

रेण चित्तसाक्षिज्ञानमात्रस्व लक्षण जीवप्रतिपादकेन चिच्छब्देन च स-