This page has been fully proofread once and needs a second look.

॥ श्रीः ॥
 
॥ मेघसंदेशः ॥
 
विस्तारभाजि घनपत्रलतासनाथे
मुक्तावलीविमलनिर्झरधाम्नि तुङ्गे ।
गोवर्धने कुचतटेऽपि च गोपिकाना-.
मापद्धनं सुमनसां रममाणमीडे ॥
 
विश्वव्यापन्निशिचरमयी विक्षिपन्ती नगेन्द्रं
मन्दाक्रान्ता किसलयरुचा यस्य पादाञ्चलेन ।
भ्रश्यच्चेष्टैरुपरिनिपतच्छैलपिष्टैः प्रवेष्टैः
सस्मारार्तिं स्वकृतविपदां तं स्मरामः स्मरारिम् ॥ २ ॥
 
गुणैर्वा त्रिविधैः शब्दैर्भावांस्तैरेव निर्मितान् ।
नवयन्ती जयत्युच्चैः शक्तिः स्रष्टुर्महाकवेः ॥ ३ ॥
 
ताल्वादियवसाकाङ्क्षवाग्विलम्बभयाद्ध्रुवम् ।
द्रुतमात्रैः स्तुवन्सूक्तिं जीयात्सहृदयो जनः ॥ ४ ॥