2023-02-18 16:49:57 by manu_css
This page has been fully proofread once and needs a second look.
त्रयात्पूर्वमुत्पन्नः स्यादिति । व्याख्यानावसरे चायं तत्र तत्र तात्पर्या-
वेदनाय गद्यकाव्यरीतिमाश्रित्य मधुराणि सानुप्रासानि च वाक्यानि
विलिखन्नियतमावर्जयति सहृदयानां हृदयानि । पद्यप्रणयनेऽप्यस्य
परिदृश्यते प्रशंसनीया पटीयस्ता । 'स्रोतोमूर्त्या भुवि परिणतां रन्ति-
देवस्य कीर्तिम्' इत्येतद्विवरणावसरे कथाभागं पद्यैरेव प्रतिपादय-
न्नयं महामतिरन्येषामपि पद्यानामेतत्कृतानामन्वेषणे नूनमतिमहती-
मुपजनयत्युत्कण्ठाम् । न जानीमः-- अपि नाम कृतं स्यादनेन
गद्यतः पद्यतो वा किमपि काव्यम् ? अनेन च विरचितमतिप्रशस्तं
मालतीमाधवस्य व्याख्यानमपि केरलेषु क्वचित्क्वचिदुपलभ्यते ।
कालिदासीयानां सर्वेषामपि काव्यानामयं व्याख्यातेत्यपि केरलेषु
बहवः कथयन्ति । उपलभ्य च तदीयानि व्याख्यानानि समूलमचि-
रात्प्रकटयितुमभिलषामः ।
इति
श्रीवत्सचक्रवर्ती
अभिनवभट्टबाणः कृष्णमाचार्यः ।